________________
अध्यात्म
सार:
॥३६॥
वासुदेवभवमध्ये भगवता महावीरदेवाऽऽत्मना शय्यापालकस्य कर्णयो र्धगधगायमानसीसकस्य रसो निक्षिप्तस्तदा पापानुबन्धिपापकर्म निकाचितं कृतं स कदाचिनिकाचितकर्मबन्ध आसीत् , तस्मानन्दनर्षिसत्कपश्चविंशतितमभवस्य धोरतमसाधनाकाले स उदयं नागतश्चातः सप्तविंशतितमे भवे कमैतत् पूर्णवलेनोदयमागतश्च ततः कर्णमध्ये कीलका लग्नाः, परन्तु तदा परमात्मनेपदपि नैव दुर्ध्यातम् , वस्तुत एतत्पापकर्म, पापानुबन्धिपापकर्मासीत् , अर्थादस्योदयेऽवश्यं दुर्ध्यानं भाव्यम् , परन्तु परमात्मना, प्रागेव तपस्त्यागरूपया घोरतमसाधनयेषोऽनुबन्धस् वोटित आसीदेवाऽत एव निकाचितपापकर्मणो बन्ध उदयमागतोऽप्यस्य पापाऽनुवन्धो निष्फलतां गतः । तत्त्वसंवेदनज्ञानं यत्तत्त्वं यद्रपेणास्ति तद्रपेण हेयहानादिरूपेण परिणतिमज्ज्ञानं तत्तत्त्वसंवेदनरूपज्ञानं सर्वविरतस्यैव भवति ॥२३॥ किं कर्माणि त्रीण्येव शुद्धानि, अथवैकं वा व्यमिति शङ्काया निराकरणम्
श्राद्यान्नाज्ञानबाहुल्या-न्मोक्षबाधकबाधनम् ।
सद्भावाशयलेशेनो-चितं जन्म परे जगुः ॥२४॥ विषयशुद्धं कर्म, विषयाऽपेक्षया शुद्धमस्तु, तथाऽपि तदध्यात्मस्वरूपं न कथ्यते; यत एतत्कर्मवत्यात्मनि, अज्ञानस्य मात्रा प्रचुरा विद्यतेऽविद्यायाः प्रबलः प्रभावोऽस्ति, अतो ये मोक्षस्य बाधका:प्रतिबन्धका योगाः (संसारभावाः) तेषां बाधनस्य-निराकरणस्य सामर्थ्य नास्त्येव, यद्येतत्कर्मणि सामर्थ्य ।
॥३६॥
an Education Internatio
aw.jainelibrary.org