SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: ॥३५॥ 'अज्ञानिनां द्वितीयं तु लोकदृष्टया यमादिकम् ' यत्कर्मणः स्वस्वरूपं लोकदृष्टया शुद्धमस्ति, तत्कर्म, स्वरूपशुद्धं कथ्यते, अज्ञानिना=सम्यग ज्ञानशून्यानामात्मनां यमनियमादिकर्म, तत्सर्व स्वरूपशुद्धं' अत्र यमनियमादिकर्माणि स्वतः (स्वरूपतः) शुद्धान्येव (३) 'तृतीयं शान्तवृत्या तत् , तत्त्वसंवेदनाऽनुगम्' यत्र चित्तम्य प्रशान्तवाहिता स्याद् , यो ज्ञेयं ज्ञेयत्वेन, हेयं हेयत्वेनोपादेयमुपादेयत्वेन जानाति, यश्च हेयम्य हानमुपादेयस्योपादानं प्रतिपद्यते, तस्य सर्वविरतस्यात्मनः, तत्वसंवेदननामकतृतीयं [ज्ञानपूर्वकं यत्कर्म, तदनुबन्धशुद्धं कर्म, अनेन कर्मणोत्पद्यमानशुभकर्मादेः परम्पराऽपि शुद्धा भवति, तस्मादेतत्कर्माऽनुबन्धशुद्धं कथ्यते, इदमत्र हृदयम् , तत्राऽनुबन्धो नाम भावस्य बीजभूता शक्तिः, शुभानुबन्धो नाम शुभभावजनिका बीजश क्तः, अशुभानुबन्धो नामाशुभभावकारिका बीजभूजा शक्तिः, भावाऽऽत्मकधर्मजन्यकर्मानुबन्धेनैव स्थितप्रज्ञता प्राप्यते, अतएवाऽऽध्यात्मिकविशालवत्तु लस्यातिसूक्ष्मो मध्यबिन्दुस्तु तद्भावाऽऽत्मकं शुभं मन एवाऽस्ति यदा यस्यां यादृश्यां तादृश्यां पुण्यपापयो र्बाह्यक्रियायामनुबन्धस्तु पुण्यस्य सत्को भृत्वाऽन्ततः शान्ति समाधि मुक्तिञ्चामोधां ददात्येव, अन्यच्च कदाचिदात्मा कर्मणो निकाचितं बन्धं करोति, तदा ते कर्मबन्धा उदयाऽऽगमनं विना न चलन्ति यतो निकाचितवन्धस्योपरि करणाष्टकमध्यतः किमपि करणं न लगति, परन्त्वनुबन्धस्य वार्ताऽतो विपरीतैव, यतो निकाचितकर्मबन्धस्तु न त्रुट्यति, तथाऽपि कदाचिदस्यानुबन्धास् त्रुटयन्ति एवमुपमितिकारेणोक्तं हि 'त्रिपृष्ठ ॥३५॥ Jain Education Internat For Private & Personal Use Only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy