________________
अध्यात्म-13 सार:
॥३४॥
मृपावादः ? इत्यादिप्रश्नानुत्तरयति, 'शुद्धमार्गाऽनुरागेणाऽशठाना या तु शुद्धता, गुणवत्परतन्त्राणां न क्वापि विहन्यते' इति=जिनेन्द्रप्रवचननिष्ठदृढतमाऽनुरागेण, येऽशठा:-मायाप्रयोगतः शून्याः सरलाः, ये च गुणगणसम्पन्नगुरुवर्गादिपराधीनास्तेषां विशिष्टगुरूणां या निर्दोषताऽस्ति साक्वापि-तादृशदीक्षादानादिप्रसङ्गेऽपि न विहन्यतेन विधातविषया भवति, अर्थादेतादृशगुरौ मृपावादादिदोषरूपाऽशुद्धिर्न सम्भवतीति ॥२१॥
त्रिधा कर्म शुद्धं भवति । विषयाऽऽत्माऽनुबन्धैर्हि, त्रिधा शुद्धं यथोत्तरम् ।
अवते कर्म तत्राद्य मुकत्यर्थ पतनाद्यपि ॥२२॥ विषयाऽऽत्माऽनुबन्धेर्हि विधा यथोत्तरं शुद्धं कर्म ब्रुवते'=(१) विषयशुद्धं कर्म-यस्य कर्मणो विषयः (साध्यो लक्ष्योवा) शुद्धो भवति, तत्कर्म विषयशुद्धं कथ्यते, यथा मोक्षं लक्षीकृत्य काशीं गत्वा करपत्रकमो चनादि, अत्र कर्मणो विषयो मोक्षोऽस्ति, स तु शुद्ध एव, तस्मात् कर्म विषयशुद्धं कथितं, (२) आत्म (स्वरूप) तः शुद्धं कर्म, (३) अनुबन्धशुद्धं कर्म, अनयो द्वयो वर्णनमग्रे वक्ष्यमाणमस्ति, ॥२२॥
द्वितीयमात्मशुद्ध कर्म, तृतीयं चानुबन्धशुद्ध कर्म अज्ञानिनां द्वितीयं तु, लोकदृष्टया यमादिकम् । तृतीयं शान्तवृत्त्या तत् , तत्त्वसंवेदनाऽनुगम् ॥२३॥
॥३४॥
Jan Education Internal
For Pearson
www.jainelibrary.org