________________
अध्यात्मसार:
॥३३॥
अभ्यासदशायामशुद्ध क्रियाया अनादरो न कर्त्तव्यः अशुद्धाऽनादरेऽभ्यासा-योगानो दर्शनाद्यपि ।
सिद्धयेनिसर्गजं मुक्त्वा, तदप्याभ्यासिकं यतः ॥२०॥ यद्येवंरीत्याऽशुद्धक्रियाया अनादरे बालजीवेषु क्रियाया योऽभ्यासः सोऽसिद्धः स्याद् यतोऽभ्यासकालीना क्रिया तु अशुद्धैव स्याद् यद्येवरीत्याऽभ्यासकालीनक्रियाऽसिद्धा भवेत्तदा नैसर्गिकसम्यक्त्वं विहाय शेषाऽधिगमसम्यक्त्वाद्यपि, असिद्धं भवेद् यतोऽधिगमसम्यकत्वाद्यपि, अभ्यासदशयैव साध्यमस्ति(निसर्गसम्यक्त्वादि. तद्भवीयामभ्यासदां विना प्राप्यते) अभ्यासकालीनाऽशुद्धाऽपि क्रियाऽभ्यासदशायामादरणीयैव यतो मोक्षाऽभिलाषरूपसदाशयपूर्विका, अशुद्धाऽपि क्रिया, शुद्धक्रियां प्रति हेतुभूत्वाऽध्यात्मस्वरूपा भवति ॥२०॥
दीक्षादातृत्वविशिष्टगुरौ दोषसम्भवाऽभावःशुद्ध मार्गानुरागेणा-शानां या तु शुद्धता ।
गुणवत्परतन्त्राणां, सा न क्वाऽपि विहन्यते ॥२१॥ दम्भिनां दीक्षादानेऽथवाऽयोग्यस्य योग्यकथने गुरौ कथं न मृषावादोऽथवा विरतिपरिणामाऽभावे निर्दम्भस्याऽपि दीक्षादाने मृषावादादिदोषः कथं न ? विरतिपरिणामशून्यस्य विरतिपरिणामभावकथनं कथं न
Jain Education Intemat
For Private & Personal use only
www.jainelibrary.org