________________
अध्यात्म सार:
॥३२॥
।
भावभेदं संलक्ष्य दीक्षादानस्य सिद्धान्तीकरणे प्रत्युत दोक्षाऽदानापत्तिः
नो चेद् भावाऽपरिज्ञानात्, सिद्धयसिद्धिपराहतेः ।।
दीक्षाऽदानेन भव्यानां, मार्गोच्छेदः प्रसज्यते ॥१६॥ प्रथमं तावदभिमुखव्यक्तौ यदा शुभ आन्तरो भावो ज्ञातश्चेत्तदा तस्य दीक्षादानं, न ज्ञातश्चेतदा दीक्षाया अदानमित्याग्रहे सति, अस्मादृशां छहस्थानामान्तरो भावो ज्ञातुमशक्यत्वाद् दीक्षाया अदानापत्तिः, (१) अन्यत्तु यस्य विरतिपरिणामो ज्ञातश्चेत्तदा तस्य दीक्षादानं परन्तु तत्र विरतिपरिणामो वर्त्तते नवा तज्ज्ञातुमशक्यं, यद्येवं तदा द्विधा काठिन्यमापतति, एकं तावद् , यत्राऽऽत्मनि विरतिरूप आन्तरो भावः सिद्धश्वेत्तदा तस्य दीक्षादानमनावश्यकम् , यतो यस्य सिद्धिर्जाता, तस्य का साधना १, साधनात्वसिद्धसाधनरूपा, द्वितीयं तावद् यत्राऽत्मनि विरतिरूपो भावो न सिद्धः, तस्य तु सुतरां दीक्षादानमशक्यं यत आन्तरं भावमज्ञात्वा दीक्षादानं भवन्तो निषेधयन्ति, अर्थाद् भावस्य सिद्धौ चासिद्धौ द्विधा मन्यानां दीमादानस्य सर्वथा प्रतिबन्धोऽतो दीक्षामार्गस्योच्छेदापत्तिः (२) तस्माद व्रतस्य योग्यताया निर्णयो भावपरिनानेन न कर्त्तव्योऽपितु भवनैगुण्यव्रतपालनधैर्याभ्यां कर्त्तव्य इति ॥१९॥
॥३२॥
Jain Education Intemat
For Private & Personal use only
www.jainelibrary.org
IO