SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसारः ॥३१॥ प्रवेशाये' ति=मोक्षमार्गरूपाऽध्यात्ममार्गे, प्रवेशमुद्दिस्य, 'द्रव्यसम्यकत्वमारोप्य व्रतं ददते' इति-सुदेवादेविषयकद्रव्यसम्यक्त्वस्याऽऽरोपणं कृत्वा पश्चादणुमहाव्रतादिकं व्रतमात्रमर्पयन्ति नाऽन्यथेति ॥१७॥ बताय योग्यताविशेषस्य वर्णनम् यो बुद्धवा भवनैर्गुण्यं, धीरः स्याद् व्रतपालने । स योग्यो भावभेदस्तु, दुर्लक्ष्यो नोपयुज्यते ॥१८॥ 'यो भवनैगुण्यं बुद्धवा व्रतपालने धीरः स्यात्स योग्य' संसारोऽयमसारः प्रकृतितो निगुणोनीरस इति सम्यग ज्ञानबलेन जानन-जाग्रत , व्रतपालनविषये धीरः 'विरुद्ध हेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः' इत्यभियुक्तोपतेः, विरुद्धनिमित्तोपस्थितावपि सुनिश्चलचेताः पुण्याऽऽत्मा व्रतदान योग्यो भवति, नाऽन्यो वैराग्यविरहितो योऽधीरः कश्चिदपि भवाभिन्नदी, ननु विरतिरूपोऽन्तरङ्गभाव आत्मनि स्पृष्टो नवास्पृष्ट इति चिन्तनीय एवेति चेदाह 'भावमेदस्तु दुर्लक्ष्यो नोपयुज्यते' अस्मादृशां छमस्थानामान्तरो भावविशेषो ज्ञातुमशक्योऽस्ति, भावभेदस्य दुर्लक्ष्यत्वाद् , व्रतविषयिणी योग्यतां ज्ञातु भावविशेषो नोपयोगविषयो भवति, अत एव पूर्वोक्तभवनैगुण्यज्ञानपूर्वकं व्रतपालनधैर्य दृष्टवैव व्रतदानस्य योग्यता निर्णयपथं नेयेति ॥१८॥ ॥३१॥ Jan Education Internet For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy