________________
अध्यात्मसारः
॥२९॥
तथाऽत्रापि विरतिसम्बन्धिशुभक्रियाया अभावेऽपि चतुर्थगुणस्थानीयजैनशासनप्रभावनादिशुभक्रिया युक्तियुक्तैवेति ॥१४॥
___पुनरपि व्यवहारनयः स्वमतं समर्थयते श्रपुनर्बन्धकस्याऽपि या क्रिया शमसंयुता ।
चित्रा दर्शनभेदेन, धर्मविघ्नक्षयाय सा ॥१५॥ यथा चतुर्थे गुणम्थाने सुदेवसुगुरुसुधर्मसेवादिक्रियारूपमध्यात्म वर्त्तते, तथा प्रथमगुणस्थानीयापुनर्बन्धकाऽवस्थासम्पन्न आत्माऽपि (अतः परं भवचक्रे कदाचिदपि सप्ततिकोटाकोटीसागरोपमप्रमाणां मोहनीयकर्मण उत्कृष्टस्थितिं न पुनर्बध्नातीत्येवं शीलोऽपुनर्बन्धक उच्यते) शमसंवेगादिरूपान्तरक्रि यावान् सम्भवति, 'चित्रा दर्शनभेदेन, धर्मविध्नक्षयाय सा'=सा-शमादि संयुता क्रियाऽपि दर्शनभेदेन चित्रा अनेकरूपा सती 'धर्मविध्नक्षयायेति'विरत्यादिरूपधर्मप्राप्ती, आगन्तुकविघ्नानामन्तरायाणां ध्वंसकरणद्वारा विरतिक्रियात्मकमध्यात्म प्रति पूर्वोक्तक्रिया कारणं भवति, व्यवहारस्तूपचारप्रधानोऽस्ति, तस्मात् स्वमते कार्यभृतविरतिक्रियारूपाऽध्यात्मं प्रति तत्कारणभूतशमादिक्रियाऽप्यध्यात्माऽऽत्मिकैवेति मन्यते व्यवहारनयेनाऽपुनर्बन्धकादावप्यध्यात्मसिद्धिः कृतेति ॥१५॥
॥२९॥
Jain Education Interna
Far Private & Personal use only
www.jainelibrary.org