SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ॥२८॥ 'निश्चयः, तत्पश्चमगुणस्थानादारभ्यैवैतदिच्छति' निश्चयनयः, पञ्चमगुणस्थानादारभ्य शुद्धज्ञानक्रियाऽऽत्मकमध्यात्ममस्ति, तस्मात् कारणाद् देशविरतिनामकपञ्चमगुणस्थानमवधीकृत्याऽभिव्याप्य यावच्चतुर्दशं, प्रत्यक्षतो निरूपितमध्यात्मं मन्यते, परन्तु व्यवहारस्तु प्रथमगुणस्थानीया पुनर्बन्धकावस्थायां थगुणस्थानीयाऽविरतसम्यग्दृष्टिदशायर्या चाऽध्यात्मं मन्यते, यतः पञ्चमगुणस्थानादिसत्काध्यात्मक्रियारूपं कार्य प्रति, अपुनर्बन्धकीयाविरतसम्यग् दृष्टिसत्कशुभक्रियाः कारणम् , अतः कारणे कार्यस्योपचारं कृत्वाऽध्यात्म मन्यते इति व्यवहारनयमतम् ।।१२।। __ व्यवहारनयः स्वमतं समर्थयते चतुर्थेऽपि गुणस्थाने, शुश्रुषाद्या क्रियोचिता । अप्राप्तस्वर्णभूषार्णा रजताऽभूषणं यथा ॥१४॥ 'चतुर्थेऽपि गुणस्थाने शुश्रुषाद्या क्रियोचिता' यद्यपि विरतिसम्बद्धा उच्चतमक्रिया अत्र न सम्भवन्ति तथाऽपि चतुर्थगुणस्थानीया धर्मशास्त्रश्रवणतीव्ररागचारित्रधर्मविषयकतीव्राभिलाष-जिनसाधुसेवानियमादिरूपा उचिता:-शुभक्रियाः सम्भवन्त्येव तथाऽत्र सम्भवन्तीः शुभकिया निषेद्धकोऽलं प्रभवेदान्न कोऽपि. 'यथाऽप्राप्तस्वर्णभूषाणां रजताऽऽषणं'सौवर्णभूषणप्राप्तिशून्यानां रजतसत्कमाभूषणमुचितं ॥२८॥ Jain Education Intemat Allwww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy