________________
अध्यात्मसार:
॥२७॥
स्मवृद्धिकृते कलयाऽप्यंशतोऽपि सातत्येन प्रयत्नवता भाग्यवता भाव्यमित्युपदेशलेशः ॥८-९-१०-१२।।
अंशद्वयाऽऽत्मकाऽध्यात्मस्वरूपम्ज्ञानं शुद्धं क्रिया शुद्धे-त्यंशो दाविह सङ्गतौ ।
चक्रे महारथस्येव पक्षाविव पतत्रिणः ॥१२॥ 'ज्ञानं शुद्ध' =भावादिना, प्रकाशकत्वादिना वा सम्यग् ज्ञान मित्येकोंऽशः, 'क्रिया शुद्धा' अविध्यादिदोषरहिता क्रिया समीचीनेति द्वितीयोऽशः, इहांशी द्वौ सङ्गतो' अध्यात्मतत्त्वे, शुद्धज्ञानक्रियाऽऽत्मको द्वित्वविशिष्टौ नत्वेकः, अतो द्वावंशौ-भेदाऽऽत्मकप्रदेशी, अभेदेन योगवन्तो, शुद्धज्ञानक्रियाऽऽत्मकाशद्वयाऽभिन्नमध्यात्ममित्यायातम, 'चके महारथस्येव' यथा महारथस्य चक्रद्वयं सङ्गतमन्यथा महारथस्य गतिर्न स्यादिति, पक्षाविव पततत्रिणः =यथा पक्षिणः पक्षी सङ्गतौ यतः पक्षद्वयशून्यत्वेन पक्षिणो विहायसि गमनमसिद्धं स्यादिति, तथा शुद्धज्ञानक्रियाद्वयाभावेनाऽध्यात्मतत्त्वस्याऽसिद्धिरेव, शुद्धज्ञान क्रियाद्वयसत्वेनैवाऽध्यात्मसत्ता, नाऽन्यथेति ॥१२॥
अध्यात्मविषयकमान्यतायां नयविभागः तत्पञ्चमगुणस्थानादारभ्यैवैतदिच्छति । निश्चयो, व्यवहारस्तु पूर्वमप्युपचारतः ॥१३॥
॥२७॥
Jain Education Internati
Far Private & Personal use only
www.jainelibrary.org