SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥२६॥ Jain Education Internat सम्यग्दर्शनं प्रतिपद्यमानः, (७) 'प्रतिपन्नश्च दर्शनम् ' = सम्यग् दर्शनधर्मप्रतिपत्तिविशिष्टः सम्यग् दर्शनीति प्रथमगुणश्रेणिः द्वितीयगुणश्रेण्या अवान्तरीभृतभेदरूपास्तिस्रोऽध्यात्मक्रिया :- (१) देशविरति धर्मप्रतिपित्सुः, (२) देशविरतिधर्मप्रतिपत्तिः (३) देशविरतिधर्मं प्रतिपन्नः इति द्वितीयगुणश्रेणिः । एवं (१) यतिधर्मप्रतिपित्सुः (२) सर्वविरतिधर्मप्रतिपत्तिः (३) यतिधर्मं प्रतिपन्नः इति तृतीय गुणश्रेणिः । 'त्रिविधोऽनन्तशक्ष' पकः- त्रिविध इति पदमग्रेऽपि गुणश्रेण्यां योज्यम् (१) अनन्तानुबन्धिकषायक्षपच्छुः (२) तत् क्षपणप्रतिपत्तिः (३) तत् क्षपणां प्रतिपन्न इति चतुर्थी गुणश्रेणिः 'दृङ् मोहक्षपकः'= (१) दर्शन मोहक्षपणप्रतिपित्सुः, (२) दर्शनमोहक्षपणां प्रतिपद्यमानः ( ३ ) दर्शनमोहक्षपणां प्रतिपन्नः, इति दशात्रयवती पञ्चमी गुणश्रेणिः, 'मोहश 'मकः' - तदनन्तरं मोहनीयकर्मणः शेषैकविंशतिप्रकृतीनामुपशामको भवेदिति षष्ठी गुणश्रेणि: 'शान्तमोहक : ' = मोहनीयैकविंशतिप्रकृत्युपशान्तिनामकाऽवस्थासम्पन्न:, इति सप्तमी गुणश्रेणि: । ' क्षपक:' - मोहनीयै कविंशतिप्रकृतिक्षपणा करणपरः, मोहक्षपणावस्थासम्पन्न इत्यष्टमी गुणश्रेणिः, 'क्षीण मोह:'- यदाऽऽत्मा मोहक्षयकारको भवेत्तदा तस्य महात्मनः क्षीणमोहावस्थारूपा नवमी गुणश्रेणिः, 'जिनः 'सयोगी केवलीजिनः इति दशमी गुणश्रेणिः, 'अयोगी" च केवली = चतुर्दशगुणस्थानवर्ती, अयोगी केवलीतिकथ्यते इत्येकादशी गुणश्रेणिः, इत्येवं प्रत्येकाध्यात्मक्रियाया या अवस्थाः प्रोक्तास्ता उत्तरोत्तरं ( क्रमशः) असख्यातगुणनिर्जरावत्यो भवन्ति, अतोऽध्या For Private & Personal Use Only ||२६|| www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy