________________
अध्यात्म
सारः
॥२५॥
Jain Education Internatio
मोक्षपको मोह - शमकः शान्तमोहकः क्षपकः क्षीणमोहश्च, जिनोऽयोगी च केवली ॥१०॥ यथा क्रमममी प्रोक्ता श्रसङ्ख्यगुणनिर्जराः । यतितव्यमतोऽध्यात्म-वृद्धये कलयाऽपि हि ॥११॥
‘अतएव जनः' = अध्यात्मक्रियात वृद्धिहेतुतत्प्रतिबन्धकादिनिरूपणाऽनन्तरमेवाऽध्यात्मरुचिर्जनः, सम्यग्दर्शनप्राप्तिरूपप्रथमगुणश्रेण्या अवान्तरभेदरूपाः सप्ताऽध्यात्मक्रिया दर्श्यन्ते, तदनन्तरं देशविरति - रूपद्वितीयगुणश्रेण्या अवान्तरविभागरूपास्तिस्रोऽध्यात्मक्रिया दर्श्यन्ते, एवं सर्वविरत्याद्येकादशगुणश्रेणिषु दर्श्यमानाऽध्यात्मक्रिया असख्यगुणनिर्जरा इति क्रमतो वर्ण्यन्ते तथाहि: - प्रथमगुण श्रेण्या अवान्तरीभूताः सप्ताऽध्यात्मक्रियाः - (१) 'पृच्छोत्पन्नसंज्ञ: ' - धर्मं प्रष्टुमुत्पन्ना ज्ञानाऽऽत्मकसंज्ञा यस्य स जनः 'पृच्छोत्पन्नसंज्ञकः' उच्यते (२) 'पिपृच्छिषु : ' = प्राग्ग् जानाति पश्चादिच्छति-धर्मप्रश्नज्ञानानन्तरं धर्मपृच्छेच्छा भवति, प्रष्टुं येच्छा, तद्विशिष्टः, (३) 'साधुपार्श्व जिगमिषुः = गीतार्थगुरोः सन्निधि गन्तुमिच्छुः (४) 'धर्म्यं पृच्छन् क्रियास्थितः' विनयादिक्रियायां स्थित्वा धर्मविषयकप्रश्न करणे वर्त्तमानः, (५) 'प्रतिपित्सुः' = सम्यग्दर्शनधर्मं प्रतिपत्तुमिच्छुः, (६) 'सृजन् पूर्व' = सम्यग् दर्शनप्रतिपत्तिक्षणे
For Private & Personal Use Only
113411
www.jainelibrary.org