________________
अध्यात्म
मा:
-कायादिर्षहिरात्माकायादिबहिरात्मा, तदधिष्ठातान्तरात्मतामेति ।
गतनिःशेषोपाधिः, परमात्मा कीर्तितस्तज्ज्ञः ॥२१॥ टी० परम्परातोऽपि पररूपसंयोगिकायगृहधनादिः, बहिरात्मेतिकथ्यते यतो बाह्यपरवस्तु , आत्माऽज्ञानतः आत्मनाऽऽत्मत्वेन मन्यते, 'तदधिष्ठाताऽन्तरात्मतामेति' तस्य कायादेरधिष्ठातृत्वेन-कायादितो भिन्नः सन्कायादिकमधिष्ठाय कर्मयोगेन, आत्माधिष्ठितकायादिचेष्टाप्रेरकत्वेन आत्मसंचालितकायादित्वेन सत्यम्वरूपात्मतत्वज्ञातृत्वेन स एवात्मा, अन्तरात्माति समुच्यते, 'गतनिःशेषोपाधिः' गतः-क्षीणः उपाधिः कमतद्विकाररूप स गतनिःशेषोपाधिः, 'तज्ज्ञैः' परमात्मस्वरूपप्रत्यक्षज्ञानिभिः सर्वज्ञैः 'परमात्मा कीर्तितः"स एवात्मा सर्वकमरहितत्वेन सर्वपरमगुणावस्थादिमान् परमात्मेत्युच्यते, कायादावेवात्मतत्त्वमतेनात्मा बहिगत्मा, कायादिगताधिष्ठातृत्वेन कायादिभिन्नत्वेनात्मनत्वमतेनान्तगत्मा, निःशेषोपाधिक्षयवत्वेन परमगुणावस्थाशक्तिमत्त्वेन परमात्मेति भेदविवेको ज्ञेयः ॥२१॥
-व्यक्तबहिरात्मस्वरूपम्'विषयकषायाऽऽवेशः, तत्त्वाऽश्रद्धा गुणेषु च द्वेषः । श्रात्माऽज्ञानं च यदा, बाह्यात्मा स्यात्तदा व्यक्तः ॥२२॥
॥५३८॥
Jan Education international
For Private & Personal use only
www.jainelibrary.org