________________
अध्यात्म
पार:
॥५३७॥
-आत्मनःसहजं शान्तं ज्योतिः प्रकाशते शान्ते मनसि'शान्ते मनसि ज्योतिः प्रकाशते शान्तमात्मनः सहजम् ।
भस्मीभवत्यविद्या, मोहध्वान्तं विलयमेति ॥११॥ टी० शान्ते-निर्विकारे मनसि सति, आन्मनः सहज म्वाभाविकं, शान्त-शीतलं ज्योतिः प्रकाशते, 'भस्मीभवत्यविद्या' अविद्या-विपरीतज्ञानं 'नित्यशुच्यात्मताख्यातिनित्याशुच्यनात्मसु अविद्या' इति शास्त्रप्रमिद्धाविद्या, भम्मीभृता भवति, मोहनामकभावान्धकारं विनाशं प्राप्नोतीति ॥१९॥
--परमात्माऽनुध्येयः सन्निहितो ध्यानतो भवति'बाह्यात्मनोऽधिकारः, शान्तहदामन्तरात्मनां न स्यात् ।
परमाऽऽत्माऽनुध्येयः, सन्निहितो ध्यानतो भवति ॥२०॥ टी. शान्तं हृद येषां तेषामुपशान्तचेतसा अन्तरात्मनां, बाह्यदेहादिस्वरूपस्य बाद्यात्मनः बाह्यदेहादिस्वरूपस्य बाह्यात्मनः वाह्यात्मसम्बन्धी अधिकारः-शासनादिको न स्यादेव, अनुध्येयः-स्मर्तव्य परमात्मा, (परमात्मस्वरूपं) ध्यानतः, सन्निहितः-स्वसमीपस्थ एव भवतीति ॥२०॥
॥५३७॥
Jain Education Intemato
For Private & Personal use only
www.jainelibrary.org