________________
अध्यात्म
सार:
B५३३॥
'विषयकषायनिवृत्त, योगेषु च सञ्चरिष्णु विविधेषु ।
गृहखेलबालोपममपि चलमिष्टं मनोऽभ्यासे ॥११॥ टी० (१) विषयतः कषायतश्च निवृत्त-विरतं मनः, (२) मोक्षस्योपायभूतसम्यग्दर्शनज्ञान चारित्रादिरूपेषु योगेषु विविधेषु सञ्चरणशीलं मनः, (३) गृहे खेलतो वालम्योपमा-सादृश्यं यम्य तत् गृहखेलद् बालोपमादन्तमुखं भवन्मनः, एतादृशं चित्तं चलमप्यभ्यासकालीन योगसाधनार्थ योगिनाम पीष्टमिच्छाविषयीभृतं भवतीति ॥११॥
-अभ्यासदशायां यातायातं मनोऽदृष्टम्'वचनानुष्ठानगतं यातायातं च साति-चारमपि ।
चेतोऽभ्यासदशायां गजाऽङकुशन्यायतोऽदुष्टम् ॥१२॥ टी० वचननामकतृतीयाऽनुष्ठानगतं ततश्च 'यातायातं-पुनः पुनर्वहिर्गत्वाऽन्तरागच्छन् , 'साति चारमपि अतिचारसहितमपि चेतोऽभ्यासदशायां 'गजाऽकुशन्यायतो' यथोन्मार्गस्थो गजोंकुशेन स्वस्थान मागच्छति, विक्षिप्तं चित्तमदुष्ट-दोषरहितमिष्टमिति ।।१२।।
-अथ प्रलोभ्य यायै निगृहणीयात्तथा चेत:
॥३३॥
Jain Education Internation
For Private & Personal use only
Twww.jainelibrary.org