________________
अध्यात्म
मार:
॥५४॥
'ज्ञानविचाराभिमुखं यथा यथा भवति किमपि सानन्दम् ।
अर्थः प्रलोभ्य बाहयै-रनुगृहणीयात्तथा चेतः ॥१३॥ टी• यथा यथा ज्ञानपूर्वकविचारस्य-दिव्यविचारस्याऽभिमुखं सत् सानन्दं किमपि भवति, तथा तथाऽसदाऽऽलम्बनतो दूरीकरणार्थ 'वायरथैः प्रलोभ्य' बाह्यसुन्दरसदालम्बनानि प्रति प्रलोभ्य चेतोऽनुगृह्णीयात्'-चेतोनिग्रहरूपोऽनुग्रहः कर्त्तव्यः । चेतसोऽसत् पात्राणि परिवर्त्य चेतोविषयरूपसत्पात्ररूपोवीकरणं विधातव्यमिति ॥१३॥
सदाऽऽलम्बनविशेषाः कथ्यन्ते'अभिरूपजिनप्रतिमां, विशिष्टपदवाक्यवर्णरचनां च ।
पुरुषविशेषादिकमप्यत एवाऽऽलम्बनं त्रुवते ॥१॥ टी० बाह्यशुभार्थरूपालम्बनेषु चित्तं नीत्वा चेतस ऊर्वीकरणरूपो निग्रहः कत्त युज्यते, अत एव
सदाऽऽलम्बनानि-(१) अभिरूपजिनप्रतिमा मनःप्रसन्नताहेतुरूपचारुतमाऽनिमेषदर्शनीयजिनप्रतिमा, (२) विशिष्टपदवाक्यवर्णरचना='जयनि जगद्गुरुजिनः' इत्यादिवद् विशिष्टस्य पदस्य वाक्यस्य च रचनाम् ।
(३) पुरुषविशेषादिकं-पुरुषविशेषरूपान्-गणधरादीन् भगवतः आदिपदेन- जैनशासनदानजैनजनतासमाधिबोधिदानसमर्थान् पुरुषविशेषान् , आलम्बनं ब्रुवते ॥१४॥
LXI||५३१॥
Jain Education Intematic
For Private
Personal use only
www.jainelibrary.org