SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ अध्यात्म-4 सारः ॥५२७॥ रचनायां म नया विशन्ति-प्रविशन्ति-समाविशन्ति, पुनश्च व्यस्तेषु-पृथक पृथगभूतेषु तेषु'=मर्वनयेषु या-अनेकान्तवादरचना नेवाऽम्ति, यथा मालायां मणयो लुठन्ति-निष्ठन्ति, पुनरपितु, व्यस्तेषु भिन्नभिन्नेषु-विकीर्णेषु मणिपु सा माला नैव विद्यते, तथाऽत्रापि सुष्ठुनया विज्ञेयमिति ॥१४॥ -स्याद्वादी सर्वनगानविभक्तान् कुर्वन् स्यादवादसुपथे विनिवेशयन् विजयते'अन्योऽन्यप्रतिपन्नभाववितथान ,स्वस्वार्थसत्यान नयान , नापेक्षाविषयग्रहै (याग्रहै) विभजते माध्यस्थ्यमास्थाय यः । स्यादवादे सुपथे निवेश्य हरते, तेषां तु दिङ्मूढताम् , कुन्देन्दुप्रतिमं यशो विजयिन स्तस्यैव संवर्द्धते ॥१५॥ टी० अन्योऽन्यस्य प्रतिपक्षभावेन परस्परं प्रति परस्परभिन्नभिन्नदृष्टया वितथान्-अन्यथारूपान , 'स्वस्वार्थसत्यान' स्वस्वदृष्टया जायमानार्थसङ्कटनया सत्यान , नयान-सर्वनयान य: स्याद्वादी 'माध्यस्थ्यमास्थाय' मध्यस्थभावं प्रतिपद्य, तत्तदपेक्षाया विषयाणामाग्रहर्वा ग्रहै --ज्ञानः, 'न विभजते' न विभक्तान् कुरुने परन्तु 'स्याद्वादे सुपथे निवेश्य'=अनेकान्तवादरूपे सन्मार्गे सम्यकस्थापयित्वा, 'तेषां तु दिङ्मूढतां'नयानां तु दिशोऽज्ञानतां हरते'--दरीकरोति, तस्यैव--स्यावादिन एव विजयिनः, कुन्देन्दु ॥ ५२७॥ Jain Education Interne Far Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy