________________
अध्यात्म
॥५२४॥
सम्पूर्ण त्ववभासते कृतधियां कृत्स्ना विवक्षा क्रमात् ,
तां लोकोत्तरभङ्गपद्धतिमयीं स्यावादमुद्रां स्तुमः ॥११॥ ___टी० यत्र-यम्यां म्याद्वादमुद्रायां अनर्पित (असाझाद्) भावविशिष्टं वस्तु 'गुणतामादधाति' गौणभावं विभनि, तु-परन्तु अर्पित-अर्पितभाव (साक्षाद्) विशिष्टं वस्तु मुख्यं समुच्यते परन्तु तात्पर्यावलबनाभावपूर्वको घटादिपदार्थविषयको बोधः म्फुटं लोकिकः कथ्यते यत्र तात्पर्यस्याऽवलम्बनं क्रियते तत्र कृतधियां-व्युत्पन्नानां सकलविवक्षाणां क्रमतो यः पदार्थबोधो जातः सम्पूर्णतयाऽवभासते, तादृशी तां लोकोतरभङ्गानां पद्धतिमयीं--प्रणालिकामयीं स्याद्वादमुद्रां स्तुमः स्तुतिविषयां कुर्मः, अनन्तपर्यायाऽऽत्मकं वस्त्वेवंभृततात्पर्यमवलम्ब्य घटत्वधर्म मुख्यं कुर्वन , घटस्य चाऽन्यधर्मान् गोणीकृत्य सम्यग्दृष्टिगन्मा, घटस्य घटत्वधर्मस्य मुख्यतया विवश्शां करोति, तस्मात् सम्यगृहप्टे र्जायमानो घटबोधः सम्पूर्णो भवति, एप बोधः म्याद्वादपद्धत्या जायने ततो ग्रन्थकारः श्रीमान स्याद्वादमुद्रायाः स्तुति विदधानानि ॥११॥
___-तं जैनागममाकलयग न वयं गाक्षेपभाजः क्वचित्'यात्मीयाऽनुभवाऽऽश्रयार्थविषयोऽप्युच्चैर्यदीयक्रमो, ग्लेच्छानामिव संस्कृतं तनुधियामाश्चर्यमोहावहः ।
॥५२४॥
Jain Education Intematic
For Private & Personal use only
Vaiww.jainelibrary.org