________________
अध्यात्म
सारः
॥५२३॥
Jain Education Internati
टी० शब्दार्थः किं ? शब्दस्वरूपः ! मतिस्वरूपः १ अर्थस्वरूपः ? द्रव्यस्वरूपः १ जातिस्वरूपः १ क्रियास्वरूपः ? गुणस्वरूपः ? शब्दार्थः किमिति, प्रतिमतं- मते मते सन्देहरूपशङ्कु - (दारुविकारविशेष) व्यथा स्थिता वर्त्तते तु परन्तु जैनेन्द्रे मते, सा-सन्देहव्यथा, नास्ति, यतः प्रतिपदं - पदे पदे जात्यन्तरार्थस्थिते:, अर्थाज्जैनमते सा वेदना नास्ति यतः प्रत्येकपदार्थे जात्यन्तरवैशिष्टयं मन्यमानमस्ति यथा पदार्थः किं शब्दरूपो वाऽर्थरूपो वाऽस्ति ? इति प्रश्ने सति तत्प्रत्युत्तरदानमेवमस्ति कथंचिच्छन्दरूपः, कथंचिदरूपः पदार्थोऽस्ति पदार्थों केवला न शब्दत्वजाति नऽप्यर्थत्वजातिरपितृभयतो भिन्नजात्यन्तरस्वरूपविशिष्टोऽयं पदार्थः, यथा शुण्ठीगुडोभयसंयोगजाता. गुटिका न शुण्ठीमात्रा, नाऽपि गुडमात्रा कथ्यतेऽपि तु विलक्षणजान्यन्तररूपा, गुटिका कथंचिद् शुण्ठीस्वरूपा, कथंचिद् गुडस्वरूपाऽपि मुख्यतो जात्यन्तरस्वरूपविशिष्टा कथ्यते, तथा प्रकृतेऽत्र सुज्ञेयम् 'यथा तात्पर्य ' = तात्पर्य मनतिक्रम्य - तात्पर्यालम्बनविशिष्टं सामान्यं च विशेष मेवान्विच्छति, तात्पर्य सहितं सामान्यं विशेषं चान्वेषणान्वितं करोति, जैनमतं तात्पर्यरहितं सामान्यं त्रिशेषं च पदार्थतया न मन्यते तात्पर्यसहितं सामान्यं च विशेष पदार्थ तया मन्यते तात्पर्यस्य स्फोटोऽग्रे स्पष्टो भविष्यतीति ॥१०॥
-लोकोत्तर भङ्गपद्धतिमत्रों स्याद्वादमुद्रां स्तुमः'यत्रार्पितमादधाति गुणतां मुख्यं तु वस्त्वर्पितम्, तात्पर्याऽनवलम्बनेन तु भवेदबोधः स्फुटं लौकिकः
For Private & Personal Use Only
1
॥५२३॥
www.jainelibrary.org