________________
अध्यात्म
सार:
॥२०॥
द्वितीयोऽधिकारोऽध्यात्मस्वरूपनामकःप्रभो? प्रथमाऽधिकारे भवद्भिः कथितं फलरूपमध्यात्ममाहात्म्यं सुचारुरूपेणाऽवगतमपि तु स्विरूपं तावदध्यात्ममिति विशेषतो जिज्ञासा जागति, यतः फलस्वरूपहेतुत्रयविज्ञानादेकस्मिन्नपि साध्ये कार्य सम्पूर्णोत्साहेन प्रयत्नो विधीयतेऽतस्तज्जिज्ञासोपशान्तये गुरुशिष्यप्रकारः प्रश्नोत्तररूपः प्रथमः श्लोकः प्रतन्यते ।।
भगवन् किं तदध्यात्म, 'यदित्थमुपवर्यते ।
शृणु वत्स ! यथाशास्त्र, वर्णयामि पुरस्तव ॥१॥ 'भगवन् यदित्थमुपवर्ण्यते तदध्यात्म किमिति-हे पूज्य ! एतादृशमनीदृशमध्यात्ममाहात्म्यं भवद्भिः स्तृयते तदध्यात्म किं ? अर्थात् किं क्रियामात्रलक्षणं? किं ज्ञानमात्र लक्षणं? किं ज्ञानक्रियोभयलक्षणं ? किंवाऽन्यलक्षणं कथ्यते ? तभिरुच्यतां कृपया, 'वत्स ! शणु यथाशास्त्रं वर्णयामि पुरस्तवे'ति-हे जिज्ञासो। शिष्य ! कर्ण दत्वा श्रवणोत्सुको भव तवाऽग्रतोऽहं शास्त्रमनतिक्रम्य तदध्यास्मस्वरूपं कथयन्नस्मीति ॥२५॥
___ अध्यात्मस्वरूपनिर्णय:-- गतमोहाधिकाराणा-मात्मानमधिकृत्य या । प्रवर्तते क्रिया शुद्धा, तदध्यात्म जग जिनाः ॥२॥
||२
Jain Education Intemate
www.jainelibrary.org