SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार ॥२१॥ 'आत्मानमधिकृत्येति सच्चिदानन्दमयमात्मानमुद्दिश्य-लक्ष्यीकृत्य या शुद्धा='यस्मात् क्रियाःप्रति. फलन्ति न भावशून्याः' इति वचनाद् भावशुद्धिमपेक्ष्याऽथवा 'वचनसापेशव्यवहारसाचो कह्यो इत्यानन्द धनमहर्षिवचनाज्जिनवचनसापेक्षसत्यव्यवहारशुद्धिमपेक्ष्य शुद्धा, 'गतमोहाधिकारणामिति-गतो मोहस्याधिकारः-सत्ता येषां, तेषां विनष्टमोहमहाराजसत्चाकानां मन्दीभूतमोहबलवजनानां वाऽऽत्माधिकारप्रविष्टाना 'प्रवर्त्तते क्रिया शुद्धा तदध्यात्म जगुर्जिनाः' इति-पूर्वोक्तस्वरूपा शुद्धा क्रिया प्रवर्त्तमाना यदा भवति, तदध्यात्मं, जिनाः कथयन्ति स्म तथाच गतमोहाधिकारकपुरुषककात्मोद्देशकज्ञानभावादिप्रयुक्तक्रियावत्वं भावाऽध्यात्मलक्षणमायातमिति ।।२।। सर्वेषु योगेष्वध्यात्मतत्त्वव्यापकता वर्तते सामायिकं यथा सर्वचारित्रेष्वनुवृत्तिमत् । अध्यात्म सर्वयोगेषु, तथाऽनुगतमिष्यते ॥३॥ यया सामायिक सर्वचारित्रेष्वनुवृत्तिमदिति सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातादिसर्वचारित्रभेदेषु यथा सामायिकमनुवृत्तिमद्-व्याप्तिमद् भवति, 'तथा सर्वयोगेष्वध्यात्ममनुगतमिष्यते' इति तथा मोक्षोपायभूतेषु सर्वेषु भेदप्रभेदमिन्नेषु योगेषु, अध्यात्ममनुगत-मालायां गुणवदनुस्यूतं व्याप्तं मन्यते इति ॥३॥ रा ॥२१॥ Jain Education Intematon For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy