SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ॥ ५०६ ॥ Jain Education Internation अज्ञानताविशिष्टमतिमन्तो जीवाः - आत्मानो समयसारस्य शास्त्ररहस्यस्य ज्ञातारो-वेदिनो न ज्ञेयाः, (पण्डितोऽपि भवेन्मूर्खो यस्य बुद्धिर्न तात्विकी इति वाक्यमपि न विस्मरणीयम् ॥ १८१ ॥ -: भावलिङ्गरता ये स्युः सर्वसारविदो हि ते : 'भाव लिङ्गरता ये स्युः सर्वसारविदो हि ते । लिङ्गस्था वा गृहस्था वा सिद्धयन्ति धृतकल्मषाः ॥१८२॥ टी० 'भावलिङ्गरता' इति - ये भावलिङ्गे - रत्नत्रयरूपे भावलिङ्गे परायणाः स्युः भवेयुस्ते सर्वशास्त्रस्य सारं रहस्यं विदन्तीति सर्वसारविदः कथ्यन्ते हि यतः लिङ्गस्था अथवा गृहस्था भावलिङ्गस्था अत एव सर्वसारविदः सन्तः ‘धृतकल्पषाः' - कर्मरहिताः - क्षीणकृत्स्नकर्माणः सिद्धयन्तीति--सिद्धा-भवन्तीति ।। १८२ ॥ -: आत्यन्तिक कान्तिकत्वेन भावलिङ्गमेत्र मोक्षाङ्गम् :'भावलिगं हि मोक्षाङ्गं द्रव्यलिङ्गमकारणम् द्रव्यं न्नात्यन्तिकं यस्मा - नाप्यैकान्तिकमिष्यते ॥ १८३ || टी होतिनिश्वये, रत्नत्रयरूपं भावलिङ्गमेव मोक्षं प्रत्यव्यवहितकारणं द्रव्यलिङ्गं न कारणमकारणंकारणतारहितं (अपेक्षातोऽन्यथासिद्ध) यतो द्रव्यं नात्यन्तिकं न नित्यं नाऽप्यैकान्तिकं = नियमतो न For Private & Personal Use Only ॥५०६ ॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy