________________
अध्यात्मसारः
॥१८॥
अध्यात्मवर्जितशास्त्रं संसारवर्धकं भवतिधनिनां पुत्रदारादि, यथा संसारवृद्धये ।
तथा पाण्डित्यहप्तानां, शास्त्रमध्यात्मवर्जितम् ॥२३॥ ___ 'धनिनां पुत्रदारादि यथासंसारवृद्धये' इति यथा समृद्धिशालिनां पुत्रश्व दाराश्चादिना शरीरपरीवारयोवनप्रभुतासांसारिकसुखसाधनसामग्रीमानं च, 'यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता, एकैकमायनर्थाय किमु यत्र चतुष्टयम्' इति श्लोकोक्तिवदनाय-संसारस्य वृद्धये भवति, 'तथा पाण्डित्यदृप्तानामध्यात्मवर्जितं शास्त्र' मिति तथा मिथ्यात्वदशायां पण्डितत्वमदमत्तात्महितकारितत्त्वविधायकताशून्यं शास्त्रं, भीषणचातुर्गतिकरूपानन्तजन्मजरामरणादिदुःखप्रचुरसंसारचक्रस्य वृद्धये भवति, 'पुनरपि जननं पुनरपि मरणं पुनरपि जननीजठरे शयन' मिति श्लोकोक्तिवत् पुनः पुनर्जन्मादिचक्रं दुरन्तं वर्धते ॥२३॥
अध्यात्मशास्त्राध्ययनसंस्कारतदर्थानुष्ठानादिषु सत्प्रेरणाधोषणा
अध्येतव्यं तदध्यात्म-शास्त्रं भाव्यं पुनः पुनः । अनुष्ठेयस्तदर्थश्च, देयो योग्यस्य कस्यचित् ॥२४॥
॥१८॥
Jain Education Internation
For Private & Personal use only
www.jainelibrary.org