________________
अध्यात्मसार:
लोऽधस्तादुत्तीर्णोऽनन्तरं पङ्के पङ्कः पतित इवात्यन्तक्षणिकोऽयं रसस्तत्र को मोहो यतो दुःखप्रतिकाररूपायां क्रियायां सुखाऽऽभासरूपो मिथ्यारसोऽस्तीति, 'अध्यात्मशास्रसेवायां रसो निरवधिः पुनः' इति आत्मतत्चनिदर्शकशास्त्रस्याऽध्ययनमननचिन्तनपरिशीलनादिरूपसेवायामाराधनायां प्रशमादिजन्याऽऽत्मिकरस आनन्दोऽनन्तादिरूपनिरवधिको निरुपाधिको भवति, अतोऽध्यात्मशास्त्रं सातत्येन सेवनीयं यतः परमानन्दोऽवश्यं भवत्येवेति ॥२१॥
___ अध्यात्मशास्त्रं भावनेत्राऽञ्जनसमानम् कुतर्कग्रन्थसर्वस्व- गर्वज्वरविकारिणी ।
एति हग निर्मलीभाव-मध्यात्मग्रन्थभेषजात् ॥२२॥ ___ कुतर्कग्रन्थसर्वस्वगर्वज्वरविकारिणीति-कुत्सिततर्कयुक्तिमतो ग्रन्थस्याध्ययनस्य सर्वस्वभूत गर्वरूपज्वरविकारवती,
'दृगिति-आभ्यन्तरकुदृष्टिरूपमिध्यादृष्टिः, 'अध्यात्मग्रन्थभेषजादिति-आत्मतत्त्वबोधकसुयुक्तिमद्- ग्रन्थाऽञ्जनरूपभेषजात् , निर्मलीभावमेतीति सहजमलमोहदोषविरहप्रयुक्तशुद्धतां प्राप्नोति, शुद्धसम्यग् । दृष्टिमानात्मा भवतीति ॥२२॥
१७॥
Jain Education
tema
For Private & Personal use only
www.jainelibrary.org.