________________
अध्यात्मसार:
॥१६॥
विविधानि दर्शनादिरूपगुणरत्नानि, देवैरिव पण्डितैः किं न लभ्यन्ते ? अपितु प्राप्यन्त एव, पुराणेषु ।। श्रूयते येकदा स्वर्गिभिः सागरो मथितस्तत्र मेरु मन्थानदण्डं विधाय तद्दण्डं नागराजवासुकिना बद्ध्वा मन्थनमारब्धं सम्यङ्मथनाऽनन्तरं चतुर्दशमहारत्नानि प्रादुर्भूतानि च गृहीतानीति, तद्वद् विबुधा अप्येवं कुर्वन्ति, अध्यात्मशास्त्रमेरुणाऽऽगमसागरं मध्नन्ति, तदनन्तरं तेऽप्यनन्तकल्याणकारिगुणरत्नानि किं न प्राप्नुवन्ति ? अपि तु प्राप्नुवन्त्येवेति ॥२०॥
अध्यात्मशास्त्रसेवाजन्यो रसो निरवधिरेषरसो भोगाऽवधिः कामे. सद भक्ष्ये भोजनाऽवधिः ।
अध्यात्मशास्त्रसेवायां रसो निरवधिः पुनः ॥२१॥ विश्वेऽस्मिन् जगज्जनानां त्रिविधो रसो भवति, तत्र रसद्वयं साऽवधिक, एको सो निरवधिकः, प्रथमं क्षणिकमावेदयनि, 'रसो भोगाऽवधिः कामे' इति कामभोगविषयको रस-आनन्दः, भोगावधि भोगपर्यन्तस्तस्यान्तोऽत्यन्ताऽसमाध्युवेगादिदुःखराशिदो भवति 'सद् भक्ष्ये रसो भोजनावधिः' इति=
।।१६।। स्वादुतमसुरभिमिष्टान्नपक्यान्नरूपचारुभक्ष्यभोज्यपदार्थविषयको रसो यावद् भोजनमर्थाद्गलास्कव
Far Private & Personal use only
Jan Education Internal
www.jainelibrary.org