________________
क
टीका:-'परे' इति-अध्यात्मशास्त्रविरहेण भाषणपरायणाः, 'भुजाऽऽस्फालनहस्ताऽऽस्यविकाराऽअध्यात्म-रा मिनयाः' इति-भुजाया आस्फालनेन, हस्ताऽङ्गुल्यायवथवानां ऊर्ध्वाधः करणद्वारा, हास्यादिसहिता सारः मुखेन, विकारसूचकाः येऽमिनयास्तद्वन्तोऽन्ये भवन्ति परन्तु 'अध्यात्मशास्त्रविज्ञास्तु' इति आत्मतत्त्व
रहस्याऽभिप्रायकज्ञानसम्पत् समन्वितास्तु ‘अविकृतेक्षणा वदन्तीति-चाक्षुषविकारांशविरहिताः सन्त एव माषन्ते, अत्र निपीताऽध्यात्मपीयुषा महात्मानोऽङ्गप्रत्यङ्गविकाराभिनयं विना स्वीयरुचिरहृदयङ्गमनैसर्गिक शेल्या एतादृशीं भारतीजाह्मवीं प्रवाहयन्ति यथा श्रोतारस्तद् गङ्गाजलेन पावनेन प्लाविता अमृतस्नाता इवाऽमन्दानन्दमेदुराः सन्तः प्रभाविता न तद्गिरं कदापि विस्मरन्तीति धन्यते ॥१९॥
अध्यात्मज्ञानिनामागमसागरात् सद्गुणरत्नसम्प्राप्तिः
अध्यात्मशास्त्रहेमाद्रि- मथितादागमोदधेः ।
भूयांसि गुणरत्नानि, प्राप्यन्ते विबुधै न किम् ॥२०॥ 'अध्यात्मशास्त्र हेमाद्रिमथितादिति-अध्यात्मशास्त्ररूपसुवर्णाचलेन दण्डरूपेण मन्थनविषयीकृतात् 'आगमोदधे' रिति=सदागमरूपसागरात् , 'भूयासि गुणरत्नानि प्राप्यन्ते विबुधैर्न किमि'ति-बहूनि
॥१५||
Jan Education Internal
For Private & Personal use only
www.jainelibrary.org