________________
अध्यात्म-
टी. जीनस्तु स्वस्वतथाभव्यतया नोदितः--प्रेरितः, शुभाऽशभात्मकाध्यवसायमुत्पादयति, तनपरिणामाऽनुमारतः, पुण्यं--पुण्यकर्म, च पापं--पापकर्म च बनन-बन्धं कुर्वन्नम्तीति बोध्यम् ।।१७१॥
-शुद्धनिश्चयनयाऽपेक्षयाऽऽत्मा न यड:'शुद्धनिश्चयतस्त्वात्मा, न बद्धो बन्धशङ्कया ।
भयकम्पाऽऽदिकं किन्तु, रज्जावहिमतेरिव ॥१७२|| टी० एषा या सर्वा वार्ता कृता, साऽशुद्धनिश्चयनयतो ज्ञेया, शुद्धनिश्चयनयतस्तु स आत्मा, न बध्यते, कदाचिदात्मनि बन्धशङ्कायां सत्यां तस्य भयेन कम्पादिकं जायते, यथा रज्जो सर्पस्य बुद्धे भंयकरपादिकं जायते तथाऽत्रापीति ।।१७२।।
-भवस्थित्यनुसारेण परिणामतः कर्मबन्धः'रोगस्थित्यनुसारेण, प्रवृत्ती रोगिणो यथा ।
भवस्थित्यनुसारेण, तथा बन्धेऽपि वर्यते ॥१७३॥ टी० यथा रोगस्थित्यनुसारेण रोगवतः प्रवृत्तिः, तथा स्वस्वभवस्थित्यनुसारेणाऽऽत्माऽपि, तत्तत्परिणामानुत्पादयति, ततश्च शुभाऽशुभात्मककर्माणि बध्नातीति ॥१७३।।
५०१॥
Jain Education Internal
For Private & Personal use only
www.jainelibrary.org