SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ॥४९५।। Jain Education Internation शुद्धधर्मस्य स्थानमाधारः 'ज्ञानं तु तद्वपुः ' = ज्ञानं तस्य तपसो लक्षणं विज्ञेयं नान्यदिति ।। १५८|| - विशिष्टमेव तपो निर्जराहेतु र्न विलक्षणम्निपुणेनैक्य-माप्तं चन्दनगन्धवत् 1 निर्जरामात्मनो दत्ते तपो नान्यादृशं क्वचित् ॥१५६॥ 'ज्ञानेन दी० 'चन्दनगन्धवत्’=अभेदसम्बन्धाऽन्वित चन्दनगतगन्धतुल्यं, 'निपुणेन ज्ञानेनैक्यमाप्तं'= समर्थ सूक्ष्मज्ञानेन सहैकत्वं प्राप्तं तपो निर्जरामात्मनो दत्ते - तादृशतपसा निर्जरालाभान्वित आत्मा भवति, 'नाsन्यादृशं क्वचिद्' - निपुणज्ञानतादात्म्याऽप्राप्तं अन्यादृशं विलक्षणं तपो निर्जगं क्वचिदपि न दत्ते इति ॥। १५९ ।। - प्रशस्त कार्यस्पृहस्तपस्वी, विपुलं पुण्यं बध्नाति - 'तपस्वी जिनभक्त्या च शासनोद्भासनेच्छुकः । पुरायं बध्नाति विपुलं, मुच्यते तु गतस्पृहः ॥ १६०॥ टी० तपःप्रतापी, जैनशासनप्रभावनाविषयक स्पृहावान्, जिनेश्वर देवविषयकपरमभक्तिकरणकारणानुमतिद्वारा 'विपुलं पुण्यं बध्नाति = विशिष्टपुण्यानुबन्धि पुण्यं बध्नाति 'मुच्यते तु गतस्पृहः'= तादृशस्पृहारहितश्चेत्तपस्वी, कर्ममात्रबन्धनतो मुक्तो भवतीति ।। १६० ।। For Private & Personal Use Only ।। ४९५॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy