SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ अध्यात्म-1 सार ॥४९४॥ -शुद्धतपसो लक्षणपूर्वकं विवेचनम्'यत्र रोधः कषायाणां, ब्रह्म ध्यानं जिनस्य च । ज्ञातव्यं तत्तपः शुद्धमवशिष्टं तु लवनम् ॥१५७।। टी० यत्र-तपसि, क्रोधादीनां कषायाणां रोधो-विष्कम्भनम् , 'ब्रह्म' यत्र तपसि मैथुनत्यागरूपस्य ब्रह्मचर्यस्य पालनम् , 'ध्यानं जिनस्य च' यत्र तपसि भगवतोऽहतो ध्यानमर्थाद् भगवति जिनेश्वरे विषये, एकविशिष्टज्ञानधारा. कषायनिरोधब्रह्मचर्यजनध्यानत्रयी, यत्र तपसि वर्तते तत्तपः शद्धं ज्ञातव्यंविज्ञेयम् , 'अवशिष्टं तु लङ्घनम्-कषायरोधादित्रयीशून्यमवशिष्टं शेष, अशद्धं तपो लङ्घनमुच्यते, तपोऽपि च न कथ्यते, तपो लङ्घनमुच्यते, तपो लङ्घनविशेषाभावादिति ॥१५७। -देहकृशत्वादिभिस्तपान लक्ष्यते'बुभुक्षा देहकाय वा, तपसो नास्ति लक्षणम् । तितिक्षाब्रह्मगुप्त्यादि-स्थानं ज्ञानं तु तद्रपुः ॥१५८|| टी० बुभुक्षायाः क्षधाया मात्रसहनमथवा शरीरस्य कृशत्वं तपसो नास्ति लक्षणमसाधारणस्वरूपं तितिक्षा-सति मामयें क्षमा, ब्रह्मगुप्तयः ब्रह्मचर्यस्य नवगुप्तयः, अथवा ब्रह्मचर्य मनोगुप्त्यादि ॥४९४|| lain Education Interat For Private & Personal use only Twww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy