________________
अध्यात्म
सारः
॥४८६॥
-निश्चयनयसम्मतं संवरत्वं समुच्यते'विशिष्टा वाक्तनुस्वान्त-पुदगलास्तेऽफलावहाः ।
ये तु ज्ञानादयो भावाः, संवरत्वं प्रयान्ति ते ॥१४२॥ टी. निश्चयनयतस्तु पूवोक्तशास्त्रादौ मनोवचःकायसत्कपुद्गला ये बाह्यव्यापारविशिष्टा भवन्ति ते संवररूपफलं प्रति न जनका भवन्ति, ये तु ज्ञानादिरूपा आन्तग भावाः स्युस्ते, संवरफलं जनकत्वेन संवरत्वं प्रयान्ति-प्राप्नुवन्तीति ॥१४२॥
-व्यवहारिण आरोपितसंवरत्वं व्यवस्थाप्य सगर्वा भवन्ति'ज्ञानादिभावयुक्तेषु, शुभयोगेषु तद्गतम् ।
संवरत्वं समारोप्य, स्मयन्ते व्यवहारिणः ॥१३॥ टी० यत् संवरत्वं वस्तुत आत्मनिष्ठज्ञानादिभावेषु वर्तते, तस्याऽऽरोपं व्यवहारनयो ज्ञानादिभावयुक्तेषु बाह्यशुभयोगेषु करोनि, तया रीत्या तेषु बाह्यशुभयोगेषु संवरत्वमुक्त्वा, मिथ्या गर्व धारयति, अपि चस जानाति यद् बाह्ययोगेषु संवरत्वं कथयितु कथमपि न युज्यते यतो चाह्ययोगसेवनमात्रेण मोक्षो न भवति, ततस्तेन 'ज्ञानादिभावयुक्ततेति विशेषणमुक्तमरिन विशेषण मत्तायां चाहयोगे संवरत्वमागतम् , यदि च
॥४८६॥
Jain Education International
For Private & Personal use only
Filww.jainelibrary.org