________________
अध्यात्मसार
॥४८५॥
'अज्ञानाद विषयासक्तो बध्यते विषयैस्तु न ।
ज्ञानाद्विमुच्यते चात्मा, न तु शास्त्रादिपुद्गलात् ॥१४०॥ टी० अज्ञानात-आत्माऽज्ञानान् , 'विषयासक्तः' इन्द्रियमन्कविषयसुखरसिको जीवो वध्यते-कर्मणा सह बद्धो भवति, न तु विषयमात्रेण, 'ज्ञानाद्'आत्मज्ञानाच्चान्मा, कमणा मुक्तो, भवति, परन्तु शास्त्रवेषवाद्यक्रियाविषयपुद्गलात न मुक्नो भवति, सत्यज्ञानवान-अनासक्तयोगी विषयभोगोपभोगसाधनसन्निधानेऽपि कर्मणा न बध्यते. स्थूल दृष्टया शास्त्राण्यधीयानोऽपि, अज्ञानी भवाऽभिनन्दी कर्मतो मुक्तो न भवतीनि ॥१४॥
-व्यवहार विशारवसम्मतानि संवराङ्गानि कथ्यन्ते'शास्त्रं गुरोश्च विनयं, क्रियामावश्यकानि च ।
संवराङ्गतया प्राहु-र्व्यवहारविशारदाः ॥११॥ टी. शास्त्र' च गुरोश्च विनयं, प्रतिलेखनादिबाह्यक्रियामानं चाऽऽवश्यकानि संवरस्थाऽङ्गत्वेन व्यवहारविशारदाः प्राहु:-कथयन्तीति, निश्चयनयस्त्वेवं न मन्यते यतो व्यवहारसम्मतानि संवराङ्गानि सर्वाणि सेवमानोऽभव्यादिरात्मा, मोक्षं न लभते, तस्मादान्तरमावरूपसंबर एव संवर उच्यते पूर्वकथिता बाह्यच्यापाग संवरं प्रति न निश्चितहेतवस्तस्मानिश्चयनयतस्तु ते संवरत्वेन न कथ्यन्ते ॥१४१॥
॥४८५॥
Jain Education Internation
For Private & Personal use only
www.jainelibrary.org