________________
अध्यात्म.
सार:
॥४८२ ॥
Jain Education Interna
संसारोऽपि भवेत् समासत आश्रवसंवरबोरमेदे जायमाने सति, तत्फलरूपयो भवमोक्षयोरभेदापत्तिर्भवेदिति ॥१३४॥
-आश्रवन् कर्म, संवृण्वन् कर्म, भिन्नैर्निजाध्यवसायैश्चात्मैव'कर्माऽऽस्रवन् च संवृगवन्, चात्मा भिन्नै र्निजाशयैः ।
करोति न परापेक्षा मलम्भूष्णुः स्वतः सदा ॥१३५॥
टी० भिन्नैः - नानाविधैः, निजाशयैः - स्वकीयैरध्यवसायैरात्मा, स्वयमेवाश्रवन् कुर्व्वन् कर्म, संवृण्वन-निरुन्धन् कर्म, तथाकरणे - आश्रव संवरकरणे चात्मा, स्वतः स्वयमेव सदाऽलम्भृष्णः नित्यसमर्थः, परापेक्षां - परपदार्थस्याऽपेक्षां न करोतीति ॥ १३५ ॥
- सर्वाः क्रिया आत्मनः स्वतन्त्र व्यापारे निमित्तमात्राः सन्ति..
1
'निमित्तमात्रभूतास्तु हिंसाऽहिंसादयोऽखिलाः ये परप्राणिपर्याया, न ते स्वफलहेतवः
॥१३६॥
टी० आत्मनः स्वतन्त्र व्यापारं प्रति हिंसाऽहिंसादपोऽखिलाः क्रिया निमित्तमात्रभूताः सन्ति, हिंसादयः परप्राणिपर्यायाः सन्ति यतः हिंसादयः - परप्राणिनां प्राणानां नाशादयः, ते तु परप्राणिगता एव
For Private & Personal Use Only
॥४८२ ॥
www.jainelibrary.org