________________
अध्यात्मसार:
॥४७५॥
स्फटिको वर्णेरशुद्धो न भवति, तथा पुण्यपाप-शुभाशुभकर्मोपाधिसहचरित आत्मा, रागी द्वेषी चाऽऽत्मा दृश्यते, वस्तुतस्तु शुद्ध एवाऽस्ति, रागादिविरहित एवेति ॥१२॥
-आत्मनः कल्पनाऽतीतं रूपमकल्पक एव पइगति'सेयं नटकला तावद्, यावद्विविधकल्पना ।
तद्रूपं कल्पनाऽतीतं, तत्तु पश्यत्यकल्पकः ॥१२१॥ टी. अज्ञानवशेन यावद् विविधकल्पना, मानसमानममध्ये समुत्तिष्ठते, तावत् सेयं प्रत्यक्षा विविधकल्पना, नटकला-नटमायारूपोऽयमखिलसंसारः, 'तपं कल्पनाऽतीत आत्मनः कल्पनाऽती रूपं यन्निरजननिराकारस्वरूपमस्ति 'तत्त' तद्रूप-स्वरूपमात्मनः 'पश्यत्य कल्पकः = विविधकल्पनाविरहितो निर्विकल्पकपूर्णदशाप्राप्तः, पश्यात-आत्मप्रत्यक्षज्ञानतः पश्यतीति ॥१२॥
-- कल्पनामूढः प्राणी विपरीतदर्शनं करोति'कल्पनामोहितो जन्तुः शुक्लं कृष्णं च पश्यति ।
तम्यां पुनर्विलीनायामशुक्लाऽकृष्णमीक्षते ॥१२२॥ टी. 'कल्पनामोहितो जन्तुः' मोहजनितकल्पनाकरणतो जन्तुः स्वं शुक्लं-शुक्लबर्णरूपिणं च कृष्णं-कृष्णवर्णरूपिणं पश्यति-बहिरात्मभावजन्यवहिदृष्टया चर्मचक्षुपा वा पश्यति, 'तस्या पुनर्विलीनाया'=
॥४७५॥
Jain Education Internatione
For Private & Personal use only
Ow.jainelibrary.org