SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥४६०॥ Jain Education Internation प्रदर्शनम् । अथ बौद्धमतखण्डनं तथाहि भवद्भिरात्मनः परो यो ज्ञानादिसन्तानोऽभिमतः, तस्य कोऽप्येवोपयोगो नास्ति, ज्ञानादिसन्तानोऽस्त्यर्थाज्ज्ञानादिमन्तानविषयक सत्तास्वीकारतो न किमपि फलं वर्त्तते, यतः सन्ताननामकं किमपि वस्तु नास्त्येव, तथापि सन्तानस्य वस्तुत्वेन स्वीकारे प्रश्नो भवति, किं सन्तानः क्षणिकोऽस्ति वाऽक्षणिकः ? यदि क्षणिकः म स्यात्तदा ज्ञानादिगुणानामिव स सन्तानोऽपि क्षणजीवी जातः, तादृशः सन्तानो ज्ञानादीनां पौर्वापर्यक्रमं कथमुपपादयितुमलंस्यात् ? यदि सन्तानोऽ. क्षणिकस्तदा भवतां क्षणिकवादः क्षणिकः सन् विनष्टो भविष्यति, एवमुभयथा परसन्तानविषयकमत्ताऽनावश्यक्येव किञ्च सन्तानिज्ञानादिगुणा अनित्याः सन्ति ततः सन्तानोऽप्यनित्यः स्यादर्थादेतादृशाऽनित्यमन्तानतः प्रतिक्षणं निम्न्वयनाशशालिज्ञानाऽऽदिगुणानां मध्ये पौवापर्यभावः कथं घटेत १ तस्मात् परसन्तानमत्ताऽनिच्छनीया, सन्तानाऽभावे ज्ञानादिगुणानि प्रसन्तानित्वाभावः सुतरां सिद्धः । इदमत्र हृदयम् = आत्मा, ध्रुवोऽस्ति तद्भिन्नं परं किमपि सन्तानवद्वस्तु नास्ति तदात्मनो ज्ञानादिकगुणा उत्पादशीलाः सन्ति एतावदेव मन्तव्यमिति ॥६५॥ -नित्यता नाSSत्मधर्माणां व्योमदृष्टान्तबलादपि -- 'व्योमाऽप्युत्पत्तिमत्तत्तदवगाहात्मना ततः नित्यता नाऽऽत्मधर्माणां - 1 तद्दृष्टान्तच लादपि For Private & Personal Use Only 118 11 ||४६०॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy