________________
अध्यात्म-रा
।।४५६॥
टी० शुद्धप्रकृतिसङ्ग्राहकसङ्ग्रहनयस्य मते तु 'आत्मा, सदाशुद्धस्वभाव एव कथितोऽस्ति, यतः 'आत्मा शुद्धस्वभाव एष एक एव वस्तु वर्त्तते, आत्मा, सर्वदा भावाऽभिन्नोऽस्ति, एवं स्थित्या शुद्धस्वभावस्य कत्तत्वं शुद्धद्रव्यार्थिकनयेन तु न शक्यम् , किञ्चैतन्मते त्वाऽऽत्मा, कूटस्थनित्यः-अप्रच्युताऽनुत्पन्न स्थिरैकस्वभावरूपः, अर्थात् साक्षित्वमात्रमाश्रितः कूटस्थः केवलं तिष्ठत्यात्माऽतः कारणादाऽऽत्मन्यस्मिन् शस्वभावस्योत्पत्तिक्रियाया असम्भव एवेति ॥८९॥
-कत्तुं व्याप्रियते नाऽयमुदासीन इच स्थितः'कत्तु व्याप्रियते नायमुदासीन इव स्थितः ।
थाकाशमिव पङ्केन लिप्यते न च कर्मणा ॥१०॥ टी० शुद्धद्रव्याथिकमते तु सर्वथाऽऽत्मोदासीनोऽस्ति, स किमपि कत्तुं न प्रवर्तत एव, यथाऽऽकाशं मर्वथा निष्क्रियमस्ति, तत आकाशे पङ्कलेपो न लगति, तथा सर्वथा निर्व्यापार आत्मनि कर्मलेपो न लगतीति ॥९॥
-स्वरूपं तु न कर्त्तव्यं ज्ञातव्यं केवलं स्वतः'स्वरूपं तु न कर्त्तव्यं, ज्ञातव्यं केवलं स्वतः । दीपेन दीप्यते ज्योतिर्न त्वपूर्व विधीयते ॥११॥
॥४५६॥
Jain Education Interna 101
For Private & Personal use only
www.jainelibrary.org