________________
अध्यात्म
मारः
॥४५५॥
टी. प्राक्तनश्लोकेषु परसु. अस्माभितिं च यद् 'शब्दनयापेक्षयाऽऽत्मा, शद्धस्वभावकर्ता भवति' परन्तु शुद्धनिश्चयनयतः शुद्धद्रव्यार्थिकनयत आत्मा, शुद्धस्वभावस्याऽपि कर्ता भवितु नार्हति, तथाऽप्यत्र दिगम्बरीयाः केचित कथयन्ति, यत् 'आत्मा, शद्धद्रव्यार्थिकनयतः शुद्धस्वभावकर्ताऽस्ति' इत्येतद् दिगम्बरीयाणां कथनं मत्यतः स्वेषामपूर्वबुद्धिमत्तायाः स्पष्टं प्रदर्शनं कृतमिति दृश्यते ॥७॥
-आगामिषु षट्सु इलोकेषु दिगम्बरीयमतखण्डनम् - 'द्रव्यास्तिकस्य प्रकृतिः, शुद्धा सङग्रहगोचरा ।
येनोक्ता सम्मतो श्रीम-सिद्धसेनदिवाकरैः ॥८॥ ___टी० श्रीमद्भिर्भगवद्भिः सिद्धसेनदिवाकरसूरीश्वरैः 'सम्मतौ' सम्मनितर्कग्रन्थे कथितमस्ति यद् । 'सङ्ग्रहनयो द्रव्याऽऽस्तिकनयस्य शुद्धां प्रकृति प्रतिपद्यते' अर्थाद् द्रव्यार्थिकनयम्य या शुद्धा प्रकृतिः सा संग्रहनयेन विषयीक्रियते ॥८॥
-तन्मते च न कर्तृत्वं भावानां सर्वदाऽन्वयात्'तन्मते च न कर्तृत्वं भावानां सर्वदाऽन्वयात् । कूटस्थः केवलं तिष्ठत्मात्मा साक्षित्वमाश्रितः ॥१॥
॥४५॥
Jain Education International
For Private & Personal use only
___www.jainelibrary.org