________________
अध्यात्मसार:
॥४५४॥
तस्य निरूपणं द्रव्यार्थिकनयदृष्टया तत्र तत्र विहितमस्ति अथवाऽमुकसमयविवक्षया तत्रैव समये सिद्धानि सर्वाण्यात्मद्रव्याणि प्रथमसमयसिद्धानि कथ्यन्ते च तद्विवक्षितसमयादन्यसमयेषु सिद्धान्यात्मद्रव्याण्य प्रथमममयसिद्धानि कथ्यन्ते, इदानीमत्राऽऽत्मद्रव्येषु यः प्रथमाप्रथमसिद्धत्वविषयको भेदः पातितः स कालस्य विपक्षया पतितोऽस्ति एवमत्र सिद्धत्वेन द्रव्यत्वेन सर्वेषां सिद्धानां समानत्वेऽपि कालोपचारेण तेपु सिद्धद्रव्येषु भेदः पातितः अर्थाद् द्रव्यार्थिकनयदृष्टया भवन्नेतादृशः प्रथमाऽप्रथमसिद्धत्वमेदः कालोप चारिकः सञ्जातो यदा पर्यायार्थिकन यदृष्टया तु शुद्धपर्यायरूपो य आत्मा, यदा स्यात्तदा तत्र प्रथमसमयसिद्धत्वमायाच्चाऽनन्तरं स एवाऽऽत्मा, द्वितीयादिक्षणे नास्ति, किन्त्वपरशद्धपर्यायाऽऽत्मका आत्मानः सन्ति, एतेषु सर्वेस्वात्मस्वप्रथमसमयमिद्धत्वमायात , एवमत्राऽमुककालविवक्षाविधानं नास्ति, तस्मादेतत्पर्यायार्थिकन यदृष्टयेव शद्धपर्यायस्वरूपोऽयमात्मेति, अत एव प्रथमाप्रथमत्वादिभेदस्तात्विको नवोपचारिको भवतीति ॥८६॥
-द्रव्यार्थिकनयतः शुद्ध स्वभावकर्ताऽऽत्माऽस्तीति दिगम्बरोयमतखण्डनम्'ये तु दिकपटदेशीयाः, शुद्धद्रव्यतयाऽऽत्मनः । शुद्भस्वभावकर्तृत्वं, जगुस्तेऽपूर्वबुद्धयः ||८७॥
॥४५४॥
Jain Education Internatie
For Private & Personal use only
www.jainelibrary.org