SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: 1॥१३॥ अध्यात्मज्ञानद्वारा विषयतृष्णाया उच्छेदःविषवल्लीसमा तृष्णां वर्धमानां मनोवने । अध्यात्मशास्त्रदात्रेण, छिन्दन्ति परमर्षयः ॥१६॥ टोकाः-परमर्षयः' इति-ऋषिषु चक्रवर्तिनः, 'मनोवने वर्धमानामिति-मन एव वनं, तस्मिन्हृदयरूपोपवने वृद्धि लभमानां, विषवल्लीसमा तृष्णामिति-विपलतासदृशीं विषमविकारवर्धिनी कामभोगादिविषमयाऽऽशां 'अध्यात्मशास्त्रदात्रेणेति-चलवदात्मशास्त्रजन्यतीक्ष्णबोधरूपदात्रेण, 'छिन्दन्तीति-विच्छेदक्रियाविषयां कुर्वन्तीति, अर्थात् कदाचिदपि पुनरुत्थानं न लभेतेति कुर्वन्ति ।।१६॥ ___कलिकालेऽध्यात्मवाङ्मयं दूर्लभम्वने वेश्म धनं दौस्थ्ये, तेजो ध्वान्ते जलं महौ । दुरापमाप्यते धन्यैः, कलावध्यात्मवाड्मयम् ॥१७॥ टीकाः-'वने वेश्म दुरापमिति-गहनवने गच्छतां मार्गतो भ्रष्टानां यथा गृह दुर्लभम् , 'तेजो धान्ते' इति यथाऽसितपक्षीयरजन्यां घोरतमसि प्रकाशकं तेजो दुर्लभम् , 'जलंमरौ' इति-म्रियते जलेनविना यत्र स मरुः, तस्मिन् , यथा मरुदेशे जलं दुर्लभम् , तथा 'धन्यैः कलौ दुरापमध्यात्मवाङ्मयमा ॥१॥ Jain Education Internatie For Private & Personal use only |www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy