________________
DXN
अध्यात्म-
सारः
॥४५२॥
टी. हीति निश्चये, 'रागक्लेशादिवासितं चित्तमेव संसारः =निश्चयनयतो रागद्वेषमूलककर्मादिरूपक्लेशादिवासनासहितं चित्तमेव, न तु चित्तभिन्न विभावरूपं संसारनामकतच्यम् , 'तै विनिमुक्तं तदेव भवान्त इति कथ्यते'-रागक्लेशादिमि विनिमुक्तं चित्तमेव भवान्तरूपो मोक्षः कथ्यते, अर्थाद यथा यथा समक्लेशादिशून्या चेतना भवेत्तथा तथाऽऽत्मा, ज्ञानादिशुद्धभावानां कर्ता भवतीति ॥८३॥
-यश्च चित्तक्षणः क्लिष्टो नाऽसावाऽऽत्मा विरोधतः-यश्च चित्तक्षणः क्लिष्टो नाऽसावात्मा विरोधतः ।
अनन्यविकृतं रूप-मन्वथं ह्यदः-पदम् ॥४॥ टी० 'अनन्यविकृतं रूपं नाऽन्येन विकृतं-विकृतिमद् रूपं-स्वरूपमवस्थाविशेषो भवति, अत्राऽनन्यविकृतं रूपं चित्तं, चेतना, आत्मेनि कथ्यते एवं चित्तपदमन्वर्थ-अर्थगम्भीरं वर्तते, डित्थडवित्थाऽऽदियदबन्नार्थरहितमस्ति, अत्र शब्दनयः कथयति-श्रत एव यः शुद्धः-असंक्लिष्टः-निर्विकारो भवेत्स एवाऽऽन्मा, कथ्यते यश्चित्तक्षण:-आत्मा. रागादिक्तीशः संक्लिष्टो जातो भवेत् , स आत्मा-चित्तमेव न कथ्यते, अर्थादात्मा, च स क्लेशाऽभिभूत इति दृयं विरुद्धं, एकस्मिन् विरुद्धं द्वयं न संभवति, अशुद्धआन्मा, आत्मा नेति नोमतं, शुद्ध आत्मैवाऽऽत्मेत्यस्माकं मतमिति ॥४॥
A||४५२॥
Jain Education Interna
For Private & Personal use only
www.jainelibrary.org