________________
अध्यात्म
सार:
।।४४८ ।।
Jain Education Internat
टी० स्वापसुषुप्तिजागरोज्जागर मेदाच्चतस्रो दशा भवन्ति, सुखरूपस्य साक्षिण:- साक्षाद् द्रष्टुरन्तराऽऽत्मनः सुषुप्तिदशायां यथा 'निरहंकृतं ' = अहङ्कारशून्यं मानं भवति, तदेव भानमत्यन्तस्पष्टरूपेण 'शुद्धविवेके' निर्मलतम विवेकदशायां भवतीति ॥७८॥
-शुद्धाशुद्धनिश्चयनयाभ्यां कस्यात्मा भोक्तेति पृथक् क्रियते-'सच्चिदानन्दभावस्य भोक्ताऽऽत्मा शुद्धनिश्वयात् । शुद्ध निश्चयात् कर्म - कृतयोः सुखदुःखयोः ॥७९॥
टी० (१) शुद्ध निश्चयनयः - शुद्धनिश्चयनयाऽपेक्षया, आत्मा स्व सच्चिदानन्द भावरूप स्वरूपस्य भोक्ता - अनुभविता भवति (२) अशुद्ध निश्वयनयः - अशुद्ध निश्चयनयापेक्षया, कर्मकृतयोः सुखदुःखयो भक्ताऽऽत्मा भवति, यतोऽशुद्ध निश्चयनयस्तु केवलमात्मानं निरुपाधिकज्ञानादिस्वरूपमात्रं न मन्वानः कर्मोपाधिकृतसुखदुःखादिपर्यायमयमपि मन्यते, शुद्धनिश्चयस्तु कर्मोपाधिकृत रागादिपर्यायमयं वा सुखादिपर्यायमयमात्मानं न मन्यते, अशुद्ध निश्चयनयस्तूपाधिकृत भावमयमात्मानं मन्यते शुद्धाशुद्ध निश्चयनयोरभेदपरत्वमेवाsनयो निश्चयत्वमस्ति ज्ञानवानात्माऽथवा रागादिसुखादिमानात्मेति निश्चयनयपक्षे कोऽपि न मन्यते तन्मयत्वं निश्चयनयो वदति, तद्वत्वं व्यवहारनयो वदतीत्यनयोर्भेदः सुतरां दृश्यते ॥ ७६ ॥
For Private & Personal Use Only
||४४८ ॥
www.jainelibrary.org