SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ॥४४४॥ Jain Education Internatio मुद्धृतसच्वगुणेन, सांसारिक सुखानुभवो न भवति, परन्त्वेतत्सुखानुभवं प्रत्यनुद्भूतरजस्तमोगुणावपि कारणे भवत एव एवं भवनेनैतस्मिन् सुखे रजोगुणकार्यं दुःखं तमोगुण कार्य भूतो मोहव मिलत एवार्थादेतस्मिन् सुखे यथा सुखत्वमस्ति तथा दुःखत्वाऽद्यप्यस्त्येव, एवं सत्त्वाद्या गुणाः समावस्थायां परस्परं विरुद्धाः सन्तो विषमाऽवस्थायां सहैव त्रयस्तिष्ठन्ति, अर्थात् त्रयाणां कार्याणि सुखदुःखमोहरूपाणि युगपत् प्रादुर्भवन्ति, अतः सुखाऽनुभवकालेऽपि तत्सुखे दुःखत्व जातिस्तु वर्तत एवानतिक्रमाद् एवं स्वाभाविकी दुःखताऽपि पुण्यजसुखे सिध्देवेति ॥७२ || सर्वोऽपि भोगविलासो भयहेतुर्विवेकिनाम्- 'क्रुद्ध नागफणाभोगो - पमो भोगोद् भवोऽखिलः । विलासश्चित्ररूपोऽपि, भयहेतु विवेकिनाम् ॥७२॥ ० 'अखिल चित्ररूपोऽपि भोगोद् भवोविलासः = समस्तो नानाविधता सम्पन्नोऽपि शब्दादिविषयभोगजन्यः सुखानुभवरूपविलासः, आपाततो दर्शनमात्रः सुन्दरोऽपि परिणामतो विवेकिनां 'क्रुद्धनागफणा भोगोपमः" = कोपाssटोपपरीतस्य सर्पस्य फणानां विस्तारस्य सादृश्यं यस्य सोऽखिल भोगविलासो विवेकबलशालिनां सज्जन शिरोमणीनां भयस्य हेतुरेवाऽर्थात् सर्व सांसारिक भोगविलासः क्रुद्धसर्पवद् भयङ्करो भासते विवेकनाम्, सर्पतोऽपि महाभयङ्करः पापजनको भोगविलासः, भोगतोऽतो भेतव्यम् ॥७२ || For Private & Personal Use Only ॥ ४४४ ॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy