________________
अध्यात्मसार
॥४४३॥
भवेन यो वासनासंस्कार उत्पन्नः, स भविष्यत्काले रागं स्मारयत्येव, ततो विषयान् प्रति रागो जायते, तथा स्थिते मनोयोगादियोगा विषयेषु प्रवर्त्तन्ते, सा प्रवृत्तिरशुभकर्माशयमुत्पादयत्येव, ततश्च जन्मजरादिदुःखानि प्राप्यन्ते, एवं विषयसुखानुभवोद्भूतः संस्कारो दुःखस्यैव जनको भवत्येव, तत इन्द्रियसुखं मन्यमानानां जनानां तत्र सुखानुभवस्य भ्रम एव भवत्येवेवं कथ्यते यतो वस्तुतो दुःखस्य संस्कारो न नश्यत्येवेति ॥७॥
(४) पुण्यजनितसुखे स्वाभाविकदुःखता'सुखं दुखं च मोहश्च, तिस्रोऽपि गुणवृत्तयः ।
विरुद्धा अपि वर्तन्ते, दुःखजात्यनिक्रमात् ॥७१॥ टी. अत्र पूर्वोक्ताः परिणामदुःखताचास्तिस्र औपाधिक्य आसन , अर्थात्तत्राऽन्यनिमित्तेन जनितपुण्यसुखे दुःखताऽऽसीत , यदैषा चतुर्थी दुःखता स्वाभाविकी वर्तते, सत्वरजस्तम आधास्त्रयो गुणाः सन्ति, सुखं दुःखं मोहश्च तिस्रो गुणवृत्तयः, सत्त्वगुणस्य कार्य सुखं, रजोगुणस्य कार्य दुःखं, तमोगुणस्य कार्य मोहश्च, यदा त्रयो गुणाः ममा भवन्ति तदा परस्पर विरुद्धा भवन्त्यर्थादेकस्याऽवस्थाने शेषौ द्वौ न तिष्ठतः, एतद्दृष्टया ते परस्परं विरुद्धाकध्यन्ते, परन्तु यावत्ते विषमाऽवस्थास्थायिनः स्युस्तदा ते त्रयो In४५३॥ गुणा एकस्मिन्नेव स्थाने तिष्ठन्ति, एतस्यां स्थितौ यद्यपि सत्त्वगुणेन सुखाऽनुभवो भवति तथाऽपि तत्सुख
in Edale
For Private & Personal use only