________________
अध्यात्मसार:
॥४४२॥
-सुखाऽनुभवकालेऽपि तापनिहतं मनः-- 'सदा यत्र स्थितो वेषोल्लेखः स्वप्रतिपन्थिषु ।
सुखाऽनुभवकालेऽपि तत्र तापहतं मनः ॥६६॥ टी. इन्द्रियाणां सुखाऽनुभवकालेऽपि 'यत्र स्वप्रतिपन्थिषु'स्वसुखसाधनश्वरूपेषु दुःखसाधनेषु 'द्वेषोल्लेखः सदा स्थितः'तीव्रद्वेषरूपाऽरुचिभावः सततं सदा स्थित एव भवति, तत्रैतद्वेषोल्लेखरूपसंक्लेशतापेन 'हतं मनः =दग्धं पुनरपि दग्धं चित्तमवश्यं भवति, तत्र तादृशस्थितौ सत्यामिन्द्रियैः सुखानुभवः कथं क्रियतेऽर्थान क्रियत एवेति ॥६॥
३-पुण्यजनितमुखे संस्कारदुःखता साध्यते-- स्कन्धात् स्कन्धान्तरारोपे भारस्येव न तत्त्वतः ।
अक्षाऽऽहलादेऽपि दुःखस्य संस्कारो विनिवर्तते ॥७॥ टी० भारमुत्पाट्यकस्मिन् स्कन्धे खिन्ने जाते तं भारं द्वितीयस्मिन् स्कन्धे स्थापयेत्सदैवं भासते 'यद् भारस्तु जाने दूरे गतः, परन्तु वस्तुतस्तद्भारसंस्कारस्तु न दरे गतः अनया रीत्यैव 'अक्षाऽऽह्लादेऽपि' इन्द्रियाणां विषयसुखोपभोगकालेऽप्येवं प्रतिभासतेऽतः परं दुःखं दीभृतमपि तु वस्तुतः स्वाऽऽन्मनि नवीनदुःखमालाया भूमिकैन विरच्यतेऽर्थाद् दुःखस्य संस्कारस्तु न रे जातः, सुखानु
Far Private & Personal use only
॥४४२॥
कैन विरुण अतिभासतेऽतरे गतः
Jan Education Interation
www.jainelibrary.org