________________
अध्यात्म
सार:
॥४४॥
-सोदाहरणं पुण्यसुख दुःखमिति विषयं द्रढयति'जलूकाः सुखमानिन्यः पिबन्त्यो रुधिरं यथा ।
भुञ्जाना विषयान् यान्ति, दशामन्तेऽतिदारुणाम् ॥६६॥ टी० यथा रुधिरं पिबन्त्यः 'सुखमानिन्यः' =सुखं मन्यमाना जलूकाः, अन्तेऽतिदारुणां दशा यान्ति, इदमत्र हृदयम्-शरीरस्थमपवित्रं रक्तं बहिनिष्कासयितु तत्र तत्र स्थाने वैद्या जलूका- उपवेशयन्ति, ता जलूका रुधिरं पिबन्ति, तस्मिन्नवसरे भृशमानन्दमनुभवन्ति, पश्चाद्रक्तं पीत्वा जाताः स्थूला जलूका रक्ततो रिक्ताः कुर्वन्ति, यदा तदा भृशं दुःखिन्यो जायन्ते, रुधिरपानजन्यं सुखं दुःखे परिणतमेव, तथा विषयसुखभोगकाले सुखं मन्यमाना जीवा अन्ते-परिणामे, नरकादिदुर्गतिमध्येऽतिभयङ्करदशामनुभवन्ति, तस्मात्कारणात् कथ्यते, पुण्यफलत्वेन लभ्य मानसुखे परिणामे दुःखता विद्यत एवेति ॥६६॥
(२) तापाऽपेक्षया पुण्यफलसुखं दुखमेव'तीवाऽग्निसङ्गसंशुष्यत्-पयसामयसामिव ।
यत्रोत्सुक्यात्सदाऽक्षाणां, तप्तता तत्र किं सुखम् ॥६७॥ टी० इव-यथा, 'तीवाऽग्निसङ्गमशुप्यत्पयसाम्'-तीव्रस्याग्नेः सङ्गेन संशुष्यत्पयो-जलं येषु तेषा
॥४४०॥
Jain Education Internatet
For Private & Personal use only
H
www.jainelibrary.org