________________
अध्यात्म
पारः
॥४३९॥
(१) पुण्यजं सुखं दुःसत्वेन परिणामादिहेतुभिश्चतुर्भिः साध्यते'परिणामाच्च तापाच्च संस्काराच्च बुधै मतम् ।
गुणवृत्तिविरोधाच्च, दुःखं पुरायभवं सुखम् ॥४॥ टी० युधैः याज्ञपुरुषैः परिणामाच्च तापाच्च संस्काराच्च गुणवृत्तिविरोधाच्च पुण्यभवं सुखं दुःखंदुःखन्वेन मतमभिप्रेतमिति ॥१४॥
-परिणामतः पुण्यभवं सुखं दुःखमेव-- 'देहपुष्टे नरामर्त्य-नायकानामपि स्फुटम् ।
महाऽजपोषणस्येव, परिणामोऽतिदारुणः ॥६५।। टी. 'नरामर्त्य नायकानामपि' नरनायकाना-चक्रवादीनां निर्जरनायकानां-सुरेन्द्राणां, अपि:अन्यस्य च का वार्ता ? स्फुट-स्पष्टतया, 'देहपुष्टेः' पौगलिकविषयसुखभोगपुष्टिहेतुतः, 'परिणामोऽतिदारुणः =अत्यन्तभयङ्करनरकादिदुर्गतिदुःखप्राप्तिरूपाऽऽयतिफलरूपपरिणामो भवति 'महाऽजपोषणस्येव' यथा सानिकगहे पूर्वमनुकूलभोजनद्वाराऽज महान्तं सोनिकः करोति, पश्चान्महाऽतिथिममागमनाऽनन्तरं एकदा महाऽजगलेऽतितीक्ष्णकृपाणपतनाऽनन्तरमनन्तं दुःखं महाऽजोऽनुभवति, पश्य २ कीदृक्षोऽयं सुखपरिणामः, तथाऽत्रापि प्रकृते सङ्गमनीयमिति ॥६५॥
॥४३॥
Jain Education Interation
Far Private & Personal use only
www.jainelibrary.org