________________
अध्यात्म
माम
।।४३८॥
.टी. ननु व्यवहारनयाऽपेक्षया 'पापस्य फलं दुःखमस्ति, पुण्यस्य च फलं सुखमस्तीति फल भेदेन पुण्यपापे भिन्ने एवेति चेन्निश्चयनयः प्रतिवदति, हन्तेति खेदे, यत् पुण्यस्य फलं सुखमस्ति तद् दुःखान्न भिद्यते, अर्थाद् दुःखादीपदपि भिन्न नास्त्येव, सुखरूपमनोहरनामदानेन दुःखत्वध्वंसो न भवतीति ॥६॥
-कर्मोदयकृतत्वरूपहेतुना पुण्यफलं दुःखमिति साध्यते-- 'सर्वपुरायफलं दुःखं, कमोंदयकृतत्वतः ।
तत्र दुःखप्रतीकारे विमूढानां सुखवधीः ॥६३॥ टी. 'कर्मोदयकृतत्वतः कर्मण उदयेन कृतत्वतः-जन्यत्वादोदयिकत्वात् सर्वपुण्यस्य फलं वस्तुतस्तु दुःखं दुःखरूपम् । इदमत्र हार्दम्-पूर्व तावत् क्षुधादिलं दुःखमुद्भवति पश्चात् स दुःखाव्याकुली भवति, ततश्च भोजनद्वारा तदुःखं प्रतिकृतं भवति, स्वयं मन्यते च सुख्यहं सञ्जात इति 'सुख्य सञात इत्युक्ते 'उत्थितमात्रदुःखस्य प्रतिकार एव कृतः एषोऽथों विज्ञेयः, क्षुधाऽऽतपपरिश्रमादीनां दुःखं यावत्पुष्कलं तावदेव भोजनच्छायाश्रयसुखग्रहणादिद्वारा विशिष्टं प्रतिकृतं भवत्यर्थात् सर्वदुःखाना प्रतिकारे सुखमिति विपर्यस्यति मतिः, वाङ्मात्रं पुण्य जन्यं सुखमप्येतद् दुःखप्रतिकाररूपमेवास्ति, नास्ति किञ्चिदन्यद, अम्मिन मिथ्यासुख-सुखाभासे भ्रान्ता विमूढाः सुखं कल्पन्त भो कर्मलीले ! तव कीदृशीयं माया ॥६॥
॥४३८॥
Jain Education Intema
For Private & Personal use only
www.jainelibrary.org