________________
अध्यात्मसार:
॥४३७॥
未来未来非本未来中未未中非來來來來來來來來來來來非事
टी. व्यवहारनयमतेन, पुण्यं कर्म शुभं प्रोक्तं, पापं कर्माशुभमुच्यते, निश्चयनयवादिभिरुच्यते च 'यदस्माभिर्न ज्ञायते कथं पुण्यं कर्माऽपि शुभं कथ्यते ? यत्-यतो जन्तून दुःखरूपे जन्मनि पातयति पुण्यमपि कर्मे ति ॥६॥
- कर्मणि पारतम्यसामान्येन फलभेदो न-- 'न ह्या व सस्य बन्धस्य, तपनीयमयस्य च ।
पारतन्त्र्याऽविशेषेण, फलभेदोऽस्ति कश्चन ॥६१।। ___टी. हि-किल, आयसस्य-लौहम्य च 'तपनीयमयस्य' सौवर्णस्य बन्धस्य निगडरूपबन्धस्य, 'पारतच्याविशेषेण'लोहे वा सौवणे बन्धे परतन्त्रताया विशेषस्याऽभावेन कश्चन फलस्य भेदो नास्त्येव, अत्रापि प्रकृतेऽपि पुण्यपापकर्मणोः सौवर्णलौहनिगडसमानयोः, जन्मसत्कपारतन्त्र्यस्य विशेषाऽभावेन फलस्य भेदो नास्त्येवेनि ॥६१॥
-सुखदुःखयो |दस्तु नामापेक्षया नत्वर्थाऽपेक्षया-- 'फलाभ्यां सुखदुःखाभ्यां, न भेदः पुरायपापयोः । दुःखान्न भिद्यते हन्त ! यतः पुरायफलं सुखम् ॥६२||
॥४३७॥
Jain Education Internation
For Private & Personal use only
F
ww.jainelibrary.org