________________
अध्यात्मसार:
॥४३६॥
संसारी जीवो जीवत्यपि इदं जीवानां जीवनसम्बन्धि चित्रं चरित्र के पंडिता 'हन्त ! पर्यनुयुञ्जताम्'= इदृशं कथमिति प्रश्न कत्त समर्था भवन्तु ! अपि तु न केऽपि प्रष्टुं समर्था भवेयुरिति, [ अत्र जीवस्याऽजीवात् नवतत्त्वेषु द्वितीयतत्वतो भेदनिरूपणं निश्चयनयदृष्टया पूर्ण जातमिति ॥५८||
-आत्मनः पुण्यपापतत्त्वतो भिन्नत्वं दयते'नाऽऽत्मा पुण्यं नवा पाप-मेते यत्पुद्गलात्मके ।
श्राद्यबालशरीरस्यो-पादानत्वेन कल्पिते ॥११॥ __टी. प्रात्मा, न पुण्यं कर्म नवा पापं कर्म, यत्-यत एते पुण्यपापकर्मणी द्वे पुद्गलात्मके-पौद्गलिके स्तः, मातः शरीरमध्ये बालरूपाऽऽत्मनः सर्वप्रथमं शरीरबन्धो-शरीररचना भवति, तस्योपादानकारणत्वेन पुण्यपापकर्मणी कल्पिते-अभिमते स्तः, अर्थादेतत्पुण्यपापमयकार्मणशरीरेणैव, तद्बालाऽऽन्मनः शुभाऽशुभाऽऽत्मकं शरीरं विश्यमानमस्ति ॥५६॥
-पुण्यं कर्म शुभं कथं ?-- 'पुण्यं कर्म शुभं प्रोक्तं, अशुभं पापमुच्यते । तत्कथं तु शुभं जन्तून् , यत्पातयति जन्मनि ॥६॥
॥४३६॥
JainEducation Intemaste
For Private & Personal use only
www.jainelibrary.org