________________
अध्यात्म मारः
॥४३४।।
-विकारिभिर्द्रव्यप्राणरात्मनो नास्ति स्वभावजीवनम्-- 'भिन्नास्ते ह्यात्मनोऽत्यन्तं, तदेतैर्नास्ति जीवनम् ।
ज्ञानवीर्यसदाऽऽश्वास-नित्यस्थितिविकारिभिः ॥५६॥ टी. 'ते'=निरुक्ताश्चतुर्भेदा द्रव्यप्राणाः, हीति निश्चये, 'आत्मनोऽत्यन्तं मिन्नाः स्वाऽऽत्मद्रव्यतः मर्वथा भिन्नाः, 'तत' तस्मात 'एतैः'द्रव्यप्राणैरेतरात्मनो नास्ति जीवनम , कथमिति चेत-ते द्रव्यप्राणा आत्मस्थज्ञानादिचतुःशक्तिविशेषाणां विकाररूपाः सन्ति तथाहि-ज्ञानवीर्यसदाऽऽश्वासनित्यस्थितिविकारिभिः = (१) इन्द्रियनामकद्रव्यप्राणाः, श्रात्मनः शुद्भज्ञानशक्तिसम्बन्धिविकाररूपाः (ज्ञानेन्द्रियाणि पश्च) (२) मनोवचोवपुभेदभिन्ना बलनामकप्राणाः आत्मनोऽनन्तवीर्यनामकशक्ते विकाररूपाः (३) श्वासोच्छवासनामकप्राणाः, 'आत्मनः सदाऽऽश्वासः'सन्सु आश्वासो-विश्वासः, तत्वनिर्णयरूपं झायिक सम्यग दर्शनम् • अथवा सदाऽश्वासः सदा श्वासक्रियाया अभावः अर्थादुपलक्षणतः सदाक्रियाऽभावरूपस्थिरताम्वरूपस्थिरतानामक निश्चयात्मकं चारित्रम् , क्षायिकदर्शनस्य विकाररूपा अथवा सदाश्वासाभावरूपनिष्क्रियतास्थिरतारूपचारित्रस्य विकाररूपाः, (५) आयुर्नामकद्रव्यप्राणाः, 'आन्मनो नित्यस्थितेःसाधनन्तरूपनित्यस्थितेर्विकारस्वरूपा विज्ञयाः आत्मा तु पुष्करपत्रवनिर्विकारोऽस्ति, अत एते विकाररूपा द्रव्यप्राणा आत्मनो न भवन्ति, तत एवाऽऽत्मनोऽत्यन्तं भिन्ना एव मन्ति, ये प्राणा आत्मनो भिन्नाः
॥४३४॥
Jain Education Intemala
For Private & Personal use only
|www.jainelibrary.org