SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥४३२॥ टी. अनया शैल्या 'पुद्गलादिपश्चकाजीवद्रव्यत आत्मा भिन्नोऽस्तीत्येतद्वस्तु निश्चयनयमतेन स्थिरीभृतमस्ति अर्थादात्मनि जीवत्वमेव, अजीवत्वं नास्त्येवेत्येतद्वस्तु स्थितमेव परन्तु 'व्यक्तिभेदनयादेशात व्यक्तीनां भेदो यत्र स नयः व्यक्तिभेदनयः, तस्यादेशादपेक्षया तु आत्मनि, अजीवत्वमपि मन्यते, अर्थाद् व्यक्तीनां भेदं पातयन्नयरूपादेशो व्यवहारनय उच्यते निश्चयदृष्टया तु सिद्धसंसारिरूपव्यक्तिद्वयस्वरूपो भेदो न पतति परन्तु व्यवहाग्नयः-जीवो द्विविधः सिद्धसंसारिभेदादित्येवं व्यक्तिभेदं प्रतिपद्यने, तस्मात्तदपेक्षया सिद्धे च संमारिणि जीवेऽजीवत्वमपि साध्यमानममास्तीति ।।५३।। -द्रव्यभावप्राणाभावविवक्षया सिहसंसारिजीवयोरजीवत्वम्-- 'यजीवा जन्मिनः शुद्धभावप्राणव्यपेक्षया । सिद्धाश्च निर्मलज्ञाना द्रव्यप्राणव्यपेक्षया ॥५४॥ टी. शुद्धा (निरावरणा-निदोपा:-केवला) ये भावप्राणाः शुद्ध-ज्ञानादिगुणा उच्यन्ते, इन्द्रियाद्या दश द्रव्यप्राणा उच्यन्ते यदि ज्ञानादिगुणस्वरूप-शुद्ध-केवल-भावप्राणाऽपेक्षया जीवे जीवत्वं गण्यमानं चेनदा मिद्धेषु जीवेष्वेव जीवत्वं गण्येन, जन्मिधु-संसारिषु जीवेष्वजीवत्वं गण्येत, यतो जन्मिनां, शुद्धज्ञानादिगुणानामप्रादुर्भावात्तेषां ज्ञानादयः शुद्धभावरूपा न सन्ति, किश्च यदि द्रव्यप्राणै र्जीवे जीवत्वं ॥३२॥ Jain Education Interne For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy