________________
अध्यात्म
सार:
॥४३१॥
'श्रवगाहो गुणो व्योम्नो, ज्ञानं खल्वात्मनो गुणः ।
व्योमाऽस्तिकायात्तद्भिन्नमात्मद्रव्यं जगुर्जिनाः ॥५१॥ टी. 'व्योम्नः' आकाशाऽस्तिकायस्य गुणोऽवगाहोऽवकाशदानरूपोऽस्ति, आत्मनो गुणो ज्ञानमस्ति, तन-तत आकाशाऽस्तिकायनामकाजीवद्रव्यतो भिन्नमात्मद्रव्यं जगुर्जिनाः ॥५१॥
-कालद्रव्यात्मद्रव्ययो गुणभेदेन भेदः-- श्रात्मा ज्ञानगुणः सिद्धः, समयो वर्तनागुणः ।
तद्भिन्नं समयद्रव्या-दात्मदव्यं जगुर्जिनाः ॥५२॥ ____टी० वर्त्तना गुणो यस्य स वर्त्तनागुणः समयः, वर्तनानामकः परिणाम-विशेषः,-नवपुराणभावकरणरूपः-पौर्वापर्यभावकारणरूपः, यदाऽऽत्मा, ज्ञानगुणः सिद्धः, तत्-तस्मात्कारणात् , कालनामकाजीवद्रव्यतोऽप्यात्मद्रव्यं भिन्नं जगुजिनाः ॥५२।।
'व्यक्तिभेदनयाऽऽदेशाज्जीवेऽप्यजीवत्वमपीष्यते-- 'श्रात्मनस्तदजीवेभ्यो, विभिन्नत्वं व्यवस्थितम् । व्यक्तिभेदनयादेशादजीवत्वमपीष्यते ॥५३॥
४३१॥
Jain Education Internat
For Private & Personal use only
KIwww.jainelibrary.org